पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
198
[अयोध्याकाण्डः
रामाभ्यनुज्ञा

 प्रतिज्ञामनुपालयन्निति हेतौ शता। तव प्रियकामार्थं प्रतिज्ञानुपालनाद्धेतोश्च प्रचोदितकरणे किंपुनः-कुतः संकोचप्रसङ्ग इत्यर्थः ॥ ८ ॥

 तदाश्वासय [१]ह्रीमन्तं किन्विदं यन्महीपतिः ।
 वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ ९ ॥

 मद्विषयकनियोगसंकोचेन जगतीपतिर्वसुधासक्तनयनो मन्दमश्रूणि मुञ्चतीति यदिदं किंनु-किमर्थम् ? मा स्तु। ह्रीमन्तं लज्जाविष्टं त्वमाश्वासय ॥ ९ ॥

 गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः ।
 भरतं मातुलकुलादद्यैव नृपशासनात् ॥ १० ॥

 कथमाश्वासयाम्यनिवृत्तस्वकार्येत्यत्राह-गच्छन्त्वित्यादि ॥१०॥

 दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः ।
 [२]अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ ११ ॥

 अविचार्येति । उपाधिचिन्तामकृत्वैवेत्यर्थः ॥ ११ ॥

 सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी ।
 प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥ १२ ॥

 प्रस्थानं-वनप्रस्थानम् ॥ १२ ॥

 एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः ।
 भरतं मातुलकुलादुपावर्तयितुं नराः ॥ १३ ॥


  1. हीमं तं. भीतं तं-ङ.
  2. पितुर्वाक्यमविचार्य-वनं गच्छेति पित्रा नोक्तमिति विचारमकृत्वा-गो.अथवा अविचार्य-अविगणय्य विशिष्य पित्राज्ञामप्रतीक्ष्येति यावत् ।