पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९ सर्गः]
197
श्रुत्वाऽपि तद्वचो घोरं रामोऽवोचदविक्रियः

 हितेन गुरुाण पित्रा कृतज्ञेन नृपेण च ।
 नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ ५ ॥

 कृतज्ञेनेति । त्वत्कृतमापत्त्राणं जानातीति तथा । विस्रब्धः-निर्विशङ्कः । किं न कुर्यां-सर्वमपि कुर्यामेव ॥ ५॥

 अलीकं मानसं त्वेकं हृदयं दहतीव मे ।
 स्वयं यन्नाह मां राजा [१]भरतस्याभिषेचनम् ॥ ६ ॥

 किन्त्विदं मानसं-मनसि वर्तमानं अलीकं दुःखं हृदयं दहतीव । इदमिति किमित्यतः-स्वयमित्यादि ॥ ६ ॥

 अहं हि [२]सीतां राज्यं च प्राणानिष्टान् धनानि च ।
 हृष्टो भ्रात्रे स्वयं दद्यां [३]भरताय प्रचोदितः ॥ ७ ॥

 कथं संकोचेनायमर्थो राज्ञा शक्यवादः ? इत्यत्राह-अहं हीत्यादि । प्रचोदित इति । भरतस्नेहात्, त्वत्स्नेहेन वा; न केवलं पित्रेति शेषः ॥

 [४]किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः ।
 तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ ८ ॥


  1. अनेन मम वनवासविषये राज्ञ आदेशं नाहं प्रतीक्षे। किन्तु भरताभिषेचन-रूपसन्तोषवृत्तान्तमपि न राजा वदति खलु, 'भरतामिषेचनं मम सन्तोषाय न स्यात् इति राजा मन्यते किम् ? इत्येव मम दुःखमिति सूचितम्
  2. सीतां-धनुर्भङ्गकाल इति भावः-गो. यद्वा-भरतायेत्येतत् राज्यं चेत्यारभ्यैवान्वेति-औचित्यात् । अथवा भरताय-भरतप्रयोजनानुवर्तनायेत्यर्थः मम सीतापरित्यागेन यदि किञ्चत्प्रयोजनं भरतस्य स्यात्तदा सीतामपि नून त्यजेयमिति भावः
  3. भरतायाप्रचोदितः-ङ.
  4. भरतसुखषपत्तये भरतस्नेहादेव सर्वे त्यजेयं चेत् किमुत पित्रा नियुक्तः तवाभिमतेष्टसिद्धय इति भावः । भरतायाप्रचोदित इति पाठे-केनाधप्यप्रचोदिताऽपि, स्वयमेव भरतसुखमंपत्तये सर्वै त्यजेयं चेत् पित्रा प्रचोदितः किमु । तत्रापि भवदभिमतसिद्धिः, भरतसुखसंपादनं, राजनियोगपरिपालनं चेत्यनेकफलसिद्धिर्हि एकेनैव मम कर्मणेति सन्तोषातिशयः । अतः 'स्वयमेव' इति द्विवारमुक्तम्