पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
196
[अयोध्याकाण्डः
रामाभ्यनुज्ञा

एकोनविंशः सर्गः

[रामाभ्यनुज्ञा]

 तदप्रियममित्रघ्नो वचनं मरणोपमम्
 श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ १ ॥

 एवं वनवासनियोजितस्य भगवतो ब्रह्मणो रामस्याभिषेकाविशेषं वनवासस्य च परमसन्तोषतया प्रवृत्तिः । तदप्रियमित्यादि । मरणोपमं लोकदृशा ॥ १ ॥

 एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः ।
 [१]जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ २ ॥

 'द्विर्नाभिभाषते' इत्युक्तत्वात् 'एवमस्तु' इत्येव केवलमाह ॥

 इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः ।
 नाभिनन्दति दुर्धर्षो यथापूर्वमरिन्दमः ॥ ३ ॥
 मन्युर्न च त्वया कार्यो देवि ! ब्रूमि तवाग्रतः ।
 यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ ४ ॥

 [२]मन्युर्न च त्वया कार्येति । यतो नाभिनन्दतीति शेषः । ब्रूमि-ब्रवीमीति यावत् ॥ ४ ॥


  1. जटाजिन-ङ
  2. 'मम वनवासं राजा स्वयं नादिशति खलु' इति राज्ञे भवता न मन्युः कार्येति व्याख्यातुराशयः । गोविन्दराजीये-"मनुः-दैन्यं 'मन्युदैन्ये' इत्यमरः" इत्युक्तम् । वस्तुतस्तु-'मत्स्वभावशीलादिकं ज्ञात्वापि राजा मां किमर्थं नाभिनन्दति । स्वयं कुतो वा नादिशति' इति रामेण निर्वेदादुक्ते 'तर्हि राज्ञः साक्षादादेशादेवायं वनं गच्छेत्किम् ? मम वचनेऽस्य विश्वासो नास्ति वा' इति कुपितां देवीमिङ्गितैर्ज्ञात्वा श्रीरामः कैकेयीं प्रसाद्य विश्वासमुत्पादयत्यनेन वाक्येनेति तु स्वरसम् ॥