पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८ सर्गः]
195
रामं सा राजवचनात् वनवासं समादिशत्

 सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः ।
 अभिषेकमिदं त्यक्त्वा [१]जटाचीरधरो भव ॥ ३७ ॥
 भरतः कोसल[२]पतेः प्रशास्तु वसुधामिमाम् ।
 नानारत्नसमाकीर्णां सवाजिरथ[३]कुञ्जराम् ॥ ३८ ॥
 [४]एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः ।
 शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ ३९ ॥
 एतत्कुरु नरेन्द्रस्य वचनं रघुनन्दन !
 सत्येन महता, राम ! तारयस्व नरेश्वरम् ॥ ४० ॥

 सत्येन-सत्यपरिपालनेन ॥ ४० ॥

 [५]इतीव तस्यां परुषं वदन्त्यां
  न चैव रामः प्रविवेश [६]शोकम् ।
 प्रविव्यथे चापि महानुभावः
  राजा तु पुत्रव्यसनाभितप्तः ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टादशः सर्गः


 इति-इत्येवं । राजा तु-राजैव । पुत्रव्यसनं-भाविवियोगव्यसनम् । कवि (४१) मानः सर्गः ॥ ४१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टादशः सर्गः



  1. जटाजिन-ङ.
  2. पुरे-ङ.
  3. संकुलां-ङ.च.
  4. एतेन-एतत्कारणकेन, कारुण्येन-दैन्येन
  5. इवशब्देन अन्यान्यपि परुषाणि बहून्युक्तानीति गम्यते-गो.
  6. कोपम्-ङ.