पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
194
[अयोध्याकाण्डः
वनवासनिदेशः

 पुरा दैवासुरे [१]युद्धे पित्रा ते मम, राघव !
 रक्षितेन वरौ दत्तौ [२]विशल्येन [३]महारणे ॥ ३२ ॥

 [४]विशल्येन-पश्चाच्छल्यापाकरणपूर्वकं रक्षितेन ॥ ३२ ॥

 [५]तत्र मे याचितो राजा भरतस्याभिषेचनम् ।
 गमनं दण्डकारण्ये तव चाद्यैव, राघव ! ॥ ३३ ॥

 तत्र म इति । मम तयोर्वरयोः एकेनेति शेषः । अद्यैव-एतत्क्षण एवेत्यर्थः ॥ ३३ ॥

 यदि सत्यप्रतिज्ञं त्वं पितरं [६]कर्तुमिच्छसि ।
 आत्मानं च, नरश्रेष्ठ ! मम वाक्यमिदं शृणु ॥ ३४ ॥

 आत्मानं चेति । त्वयाऽपि मदुक्तकृतेः सशपथं प्रतिज्ञातत्वादित्याशयः ॥ ३४ ॥

 [७]अनुदेशे पितुस्तिष्ठ [८]यथानेन प्रतिश्रुतम् ।
 त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ ३५ ॥

 यथा तेन दशरथेन वरद्वयं प्रतिश्रुतं तस्मिन् पितुरनुदेशे-नियोगसंपादने तिष्ठ-व्यवस्थितो भव । अतः-त्वयेत्यादि ॥ ३५ ॥

 [९]भरतश्चाभिषिच्येत यदेतदभिषेचनम् ।
 त्वदर्थे विहितं राज्ञा तेन सर्वेण, राघव ! ॥ ३६॥


  1. देवासुरयुद्धान्तर्गते महारणे-दशरथकर्तृकावान्तरशम्बरासुरयुद्ध इत्यर्थः । तेन न पौनरुक्त्यम् । महारणे सशल्येन मया रक्षितेन ते पित्रा मम वरौ दत्तौ इत्यन्वयः.
  2. सशल्येन-ङ.च.
  3. मया रणे-ङ.
  4. पूर्वं सशल्येनेति शेषः
  5. तत्र वरप्रदाननिमित्तं-गो.
  6. कर्तुमर्हसि-ङ.
  7. सन्निदेशे-सर्वत्र.
  8. यदनेन-ङ.
  9. अभिषेचनं-अभिषेचनोपकरणं यदेतत् राज्ञा त्वदर्थे विहितं तेन सर्वेण भरतोऽभिषिच्येतेत्यन्वयः.