पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८ सर्गः]
193
वरद्वयप्रदानं च सा प्राह नृपतेस्तदा

 एवं रामेणाप्युक्तकरणव्यवस्थायां पृष्टायां रामोऽपि [१]दशरथवद्वक्तव्यघोरापरिज्ञानात् 'यदि शक्यं तदा करोमि' इत्यनुक्त्वा सर्वथैव करिष्य इति प्रतिजानीते-एतत्त्वित्यादि ॥ २७ ॥

 अहो धिङ्नार्हसि देवि ! वक्तुं मामीदृशं वचः ।
 अहं हि वचनाद्राज्ञः पतेयमपि पावके ॥ २८ ॥

 ईदृशमिति । 'यदि करोषि' इत्यकरणशङ्कावचनमित्यर्थः ॥

 भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे ।
 नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ २९ ॥

 गुरुणा-इहामुत्र हितोपदेष्ट्रा ॥ २९ ॥

 तद्ब्रूहि वचनं देवि ! राज्ञो यदभिकांक्षितम् ।
 करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ ३० ॥

 प्रतिजाने चेति । सर्वथा कृतसुकृतादिसाक्षितयेति शेषः । तदेव स्थिरीक्रियते-रामो द्विर्नाभिभाषत इति । प्रतिज्ञातार्थविषये द्विः-प्रतिज्ञाप्रयोजनं सकृदुक्तत्वात् तस्य पश्चादनिष्टताद्युगधितो द्वितीयवारं तदभावविषयं न ब्रवीति । उक्तमुक्तमेव, न सर्वथा तद्वैपरीत्यप्रसङ्ग इत्यर्थः ॥ ३० ॥

 तमार्जवसमायुक्तमनार्या सत्यवादिनम् ।
 उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ ३१ ॥


  1. 'तमार्जवसमायुक्तं' इत्यनुपदं दर्शनात् एवं व्याख्यातम् ।