पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
192
[अयोध्याकाण्डः
वनवासनिदेशः

 सतां विदितमिति । 'क्तस्य च वर्तमाने' इति षष्ठी । 'मतिबुद्धि' इत्यादिना वर्तमाने क्तः । त्वत्कृते-मन्निमित्त- त्वत्प्रयोजनान्तरायवशात् मयि कुपितो राजा कोपदोषेण तत्सत्यं यथा न त्यजेत्तथा कुर्विति भावः ॥ २४ ॥

 '[१]यदि तद्वक्ष्यते राजा शुभं वा यदि वाऽशुभम् ।
 करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥ २५ ॥

 तदर्थं राजा शुभं वा यदि वाशुभं वक्ष्यते तत्सर्वं त्वं यदि करिष्यसि ततोऽहं सर्वं पुनः-विशिष्य आख्यास्यामीति । मत्प्रदत्तवरनिमित्तः क्लेश इति सामान्यत उक्तमेव ॥ २५ ॥

 [२]यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।
 ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ २६ ॥

 राज्ञा-राजानुमत्या मया यदभिहितं, तत् त्वयि यदि न विपत्स्यते–न व्यर्थं भविष्यति ततोऽहमेवाभिध्यास्यामि । वक्तुं राजैवेत्यत्राह-न हीत्यादि । त्वदप्रियत्वात्त्वन्मुखमवलोक्येति शेषः ॥ २६ ॥

 एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्
 उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥ २७ ॥


  1. ब्रूञ् व्यक्तायां वाचि' इति धातोरुभयपदित्वात् लृटि वक्ष्यत इत्यपि रूपम् । केचित्तु वक्ष्यत इति कर्मणि रूपं, 'राजा' इति च तृतीयान्तमित्याहुः-सत्य.
  2. शुभं वाशुभंवा राजा यदि वक्ष्यति तर्हि करोम्येव । तर्हि किमर्थं 'आख्यास्यामि पुनस्त्वहं' इति उच्यते इति शंकां समाधत्ते यदि त्वभिहितमित्यादिना । राजा तु-साक्षान्न वक्ष्यत्येव । अतो राज्ञो विवक्षितमहमेव वक्ष्यामीत्यर्थः । राज्ञाऽभिहितं चेद्यदि करोषि, तमेवाभिप्रायमहमेव वक्ष्ये । वक्ता को वा भवतु । राज्ञस्त्वभिमतमेवेति भावः । एतदेवस्पष्टीकृतं श्रीरामेणापि 'तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्' इति ॥