पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८ सर्गः]
191
साऽपि तत्त्वं यथावृत्तं कथयामास कैकेयी

 न राजा कुपितो राम ! व्यसनं नास्य किञ्चन ।
 किञ्चिन्मनोगतं त्वस्य [१] त्वद्भयान्नाभिभाषते ॥ २० ॥

 मनोगतमति । त्वदप्रियकरमिति शेषः ॥ २० ॥

 प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते ।
 तदवश्यं त्वया कार्यं यदनेनाऽऽश्रुतं [२]मयि ॥ २१ ॥

 तदेव प्रदश्येते-प्रियमित्यादि । तदवश्यमिति । तदनेन मयि-मद्विषये आश्रुतं, तदप्रियमपि ते त्वयाऽवश्यं कार्यं; यदि पितृसुखसंपिपादयिषेति शेषः ॥ २१ ॥

 एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च ।
 स पश्चात्तप्यते राजा यथाऽन्यः प्राकृतस्तथा ॥ २२ ॥

 किं तदित्यपेक्षायामाह-एष इत्यादि । स पश्चादिति । प्रतिश्रुतवरदानकाल इति यावत् ॥ २२ ॥

 अतिसृज्य [३]ददानीति वरं मम विशांपतिः ।
 स निरर्थं गतजले सेतुं बन्धितुमिच्छति ॥ २३ ॥

 गतजले सेतुं बन्धितुमिच्छतीति । दानस्य पूर्वमेव वृत्तत्वात्तत्प्रयुक्तव्यवहारपरिहारचिन्ताऽस्य व्यर्थेत्यर्थः ॥ २३ ॥

 [४]धर्ममूलमिदं राम ! विदितं च सतामपि ।
 तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ २४ ॥


  1. त्वदिति भिन्नं पदं वा । 'भीत्रार्थानां' इत्यपादानपञ्चमी
  2. मम-ङ.
  3. दादामीति-ङ.
  4. मद्विवाहकाले हि त्वत्पित्रा मयि यो जायते तस्मै राज्यदानं प्रतिज्ञातम् । तादृशपूर्वप्रतिज्ञानिर्वर्तनायैव मयापीदानीं निर्बेध्यत इति वा भावः । तर्हि किमर्थं देवासुरसंग्रामदत्तवरद्वयेन निर्बंधनमिति चेदत्र वक्तव्यं-विवाहकाले तथोक्तत्वात् कदाचिद्राजा धार्ष्ट्यादुत्पथं गच्छेदित्यादि
    उत्तरत्र व्याख्यात्रैव वक्ष्यत इति (अयो.-107, 3-श्लो.).