पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
190
[अयोध्याकाण्डः
वनवासनिदेशः

 [१]यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः ।
 कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥ १६ ॥

 यतोमूलमिति । अलुगार्षः । यो नरः इहात्मनः प्रादुर्भावं-शरीरप्ररिग्रहं यन्मूलं-यत्कारणकं पश्येत्-जानीयात् सोऽसौ विवेकी उक्तहेतोरेव प्रत्यक्षे दैवते सिद्धे सति तस्मिन् पितरि आनुकूल्ये कथं न वर्तेत ॥ १६ ॥

 कञ्चित्ते[२] परुषं किञ्चिदभिमानात्पिता मम ।
 उक्तो भवत्या [३]रोषेण यत्रास्य [४]लुलितं मनः ॥ १७ ॥

 ते-तव रोषेण-कोपेन अभिमानात्-गर्वेण वा मम पिता परुष-मुक्तो न कच्चित् । यत्र-येनास्य मनो लुलितम् ॥ १७ ॥

 एतदाचक्ष्व मे देवि ! तत्त्वेन परिपृच्छतः ।
 किं निमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ १८ ॥
 एवमुक्ता तु कैकेयी राघवेण महात्मना ।
 उवाचेदं [५]सुनिर्लज्जा धृष्टमात्महितं वचः ॥ १९ ॥

 सुनिर्लज्जा-पत्युरेवं क्लेशकरणलज्जारहिता । धृष्टं-प्रत्यक्षतो'वनं गच्छ' इतिस्ववचनविषय[६]कालुष्यापेतं यथा तथा । आत्महितं-स्वपुत्राभिषेकविषयकम् ॥ १९ ॥


  1. मूलं प्रवृत्तिहेतुभूतं, आत्मनः-स्वस्य, प्रादुर्भावं-प्राकट्यं, यतः -यस्मात्-शि. प्रादुर्भावं-जन्म, मूलं स्वप्रादुर्भावापादकं तपआदि च यतः-पितुस्सकाशात्पश्येत्-सत्य.
  2. ते अभिमानात्-तव वालम्यात्-गो.
  3. कोपेन येनास्य-ङ.
  4. लुलितं-कलुषितं.
  5. सुनिर्लज्जा-यशः-प्रख्यापनरूपपत्युपकारार्थं-त्यक्तव्रीडा । आत्महितं-जीवानामुपकारकम् । धृष्टं प्रागल्भ्यरहितं-शि.
  6. दार्ढ्योपेतं-घ.