पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८ सर्गः]
189
प्रपच्छ कैकेयी रामः राज्ञः शोकस्य कारणम्

 कच्चिन्मया नापराद्धमज्ञानात् येन मे पिता ।
 कुपितः, तन्ममाचक्ष्व, त्वमेवैनं प्रसादय ॥ ११ ॥

 प्रसादयेति । मत्कृतापराधशान्त्या इति शेषः ॥ ११ ॥

 [१]अप्रसन्नमनाः किन्नु सदा मां प्रति वत्सलः ।
 [२]विवर्णवदनो दीनो न हि मामभिभाषते ॥ १२ ॥
 शारीरो मानसो वाऽपि कच्चिदेनं न बाधते ।
 सन्तापो वाऽभितापो वा दुर्लभं हि सदा सुखम् ॥ १३ ॥

 शारीरः-शरीव्याधिजः संतापः । मानसः-आधिजोऽभितापः । न बाधते कच्चित् । कुतस्तत्प्रसंग इत्यतः-दुर्लभमित्यादि । मानुष-तनोः पापपुण्यारब्धत्वादित्याशयः ॥ १३ ॥

 कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने ।
 शत्रुघ्ने वा महासत्त्वे [३] मातॄणां वा ममाशुभम् ॥ १४ ॥

 [४]अतोषयन्महाराजमकुर्वन्वा पितुर्वचः ।
 मुहूर्तमपि नेच्छेयं [५]जीवितुं कुपिते नृपे ॥ १५ ॥

 मातॄणां वेति । विषय इति शेषः । अतोषयन्न कञ्चिदित्यनुकर्षः ॥ १४-१५ ॥


  1. सदा मां प्रति वत्सलोऽप्यद्याप्रसन्नमनाः, मां किन्नु नाभिभाषत इत्यन्वयः.
  2. विषण्ण-ङ.च.
  3. मातॄणामिति निर्धारणे षष्ठी-गो. एतेषां विषये मम-मदीयं अशुभं-अपराधः न कच्चित्
  4. अतोषयन्नित्यादेरुत्तरार्धेण वान्वयः । हेतौ शतृ । कुपित इत्युक्तकोपे हेतुः. व्याख्यारीत्या तु अतोषयन्नित्यर्धे भिन्नं वाक्यम्.
  5. जीवितं-ङ.