पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
188
[अयोध्याकाण्डः
वतवासनिदेशः

विशेषवशात्क्षुभ्यन्तं सागरमिव स्थितम् । उपप्लुतं-केतुग्रस्तम् । उक्तं-अनृतं येन स तथा ; तद्वन्निस्तेजस्कमित्यर्थः । दृष्ट्वा भयमापन्न इत्यनुषङ्गः ॥

 अचिन्त्यकल्पं हि पितुः तं शोकमुपधारयन् ।
 बभूव संरब्धतरः [१]समुद्र इव पर्वणि ॥ ७ ॥

 पितुस्तं शोकमचिन्त्यकल्पं-अत्यन्तासंभाव्यं उपधारयन्- चिन्तयन् । समुद्रः पर्वणीव संरब्धतरः-अतिशयेन क्षुभितः बभूव । यद्यपि समुद्रस्य पर्वाणि चन्द्रोदये हर्षात्क्षोभ इति प्रसिद्धि; अथापि इह क्षोभमात्रे दृष्टान्तः ॥ ७ ॥

 चिन्तयामास च तदा रामः पितृहिते रतः ।
 किं स्विदद्यैव नृपतिः न मां प्रत्यभिनन्दति ॥ ८ ॥

 किं स्वित्-किन्नु ॥ ८ ॥

 अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति ।
 तस्य मामद्य संप्रेक्ष्य [२]किमायासः प्रवर्तते ॥ ९ ॥

 अद्यैवत्येवकारव्यवच्छेद्यमुच्यते-अन्यदेत्यादि । तस्येति । तादृशस्य मद्दर्शने नित्यप्रीतिमत इत्यर्थः ॥ ९ ॥

 स दीन इव शोकार्तो विषण्णवदनद्युतिः ।
 कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ १० ॥

 दीन इव-दीन एव । विषण्णवदनद्युतिः[३] किं स्विदित्यनुकर्षः ॥


  1. समुद्रस्य पर्वकाले क्षोभहेतुः-हर्षं एवेति कविभिः खलु कल्पितः । न ह्यचेतनस्य हर्षसंभवः । अपि तु पर्वकाले स्वाभाविकः संरंभः । तद्वद्रामोऽपि पितृवैमुख्यं दृष्ट्वा झटिति संरब्धतरोऽभूदिति दृष्टान्तानुरूप्यम्.
  2. किमाश्वासः-ङ.
  3. विषण्णवदनद्युतिः किन्नु ? इति प्रत्येकं प्रश्नान्तरम् । तिलके तु-उत्तरार्धगतरामविशेषणमित्युक्तम्