पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८ सर्गः]
187
तत्रापश्यत् नृपं रामः शोकभारेण पीडितम्

 स पितुश्चरणौ पूर्वमभिवाद्य [१]विनीतवत् ।
 ततो ववन्दे चरणौ कैकेय्यास्सुसमाहितः ॥ २ ॥

 विनीतवत्-विनीत [२]एव ॥ २ ॥

 रामेत्युक्त्वा तु वचनं वाष्पपर्याकुलेक्षणः ।
 शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥ ३ ॥

 भाषितुं न शशाकेति । रामेत्यक्षरद्वयोच्चारणाभ्यधिकमिति शेषः ॥ ३ ॥

 तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।
 रामोऽपि [३]भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥ ४ ॥

 अपूर्वं-इतः प्राक् अदृष्टपूर्वम् । भयावहं-विपत्तिशङ्का-जननद्वारणेति शेषः । पन्नगं पदा स्पृष्ट्येव रामोऽपि स्वापराधशंकया भयमापन्नः ॥ ४ ॥

 इन्द्रियैरप्रष्टैस्तं [४]क्लेशसंतापकर्शितम् ।
 निश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ ५ ॥
 ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् ।
 उपप्लुतमिवादित्यमुक्तानृतमृषि यथा ॥ ६ ॥

 अप्रहृष्टैः-खिन्नैरिन्द्रियैरुपलाक्षतं । क्लेशात्-मनःक्लेशात् । व्यथितं-खिन्नं आकुलं-संभ्रान्तं चेतो यस्य स तथा । ऊर्मिमालास्यास्तीति तथा, व्रीह्यादित्वादिनिः । अक्षोभ्यमपि स्वतो निमित्त-


  1. विनीतवदिति । सर्वलोकोत्तमस्य रामस्य लोकशिक्षार्थमेव विनयप्रदर्शनमितिवतिना सूचितम्-सत्य.
  2. स्सन्-घ.
  3. दशरथविषादस्य स्वापराधजन्यत्वशङ्कया भयं रामस्य-ति.
  4. शोक-ङ.च.