पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
186
[अयोध्याकाण्डः
वनवासनिदेशः

 ततः प्रविष्टे-पितुरन्तिकं तदा
  जनस्स सर्वो मुदिते नृपात्मजे ।
 प्रतीक्षते तस्य पुनर्विनिर्गमं
  यथोदयं चन्द्रमसः सरित्पतिः ॥ १८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तदशः सर्गः



 अन्तिके प्रविष्ट इति । अन्तिकदेशे प्रविश्य स्थित इत्यर्थः । [१]दया (१८) मानः सर्गः ॥ १८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तदशः सर्गः



अष्टादशः सर्गः
[वनवासनिदेशः]

 [२]स ददर्शासने रामो [३]निषण्णं पितरं शुभे ।
 कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ १ ॥

 अथ प्रविष्टरामस्य पितृवैमुख्यशोकहेतुप्रश्ने कैकेय्योत्तरकथनम् । स ददर्शेत्यादि । परिशुष्यता मुखेनोपलक्षितम् ॥ १ ॥


  1. मातृकासु अस्मिन् सर्गे १८ श्लोका निर्दिष्टाः । दृश्यन्ते च सर्वत्र २२ श्लोकाः । अतश्च व्याख्यागतिपरिशीलनयाऽधिकपाठाः कुण्डलिताः
  2. आसने-पर्यङ्के-गो.
  3. विषण्णं-ङ.