पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७ सर्गः]
185
स निवर्त्य जनं रामः कैकेय्याः प्राविशद्गृहम्

 चतुष्पथान् देवपथांश्चैत्यान्यायतनानि च ।
 [१]प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः ॥ १५ ॥

 प्रदक्षिणं परिहरन्निति । चतुष्पथाद्यपेक्षया स्वस्य दक्षिणभागगमनं परिहरन्नित्यर्थः ॥ १५ ॥

 स राजकुलमासाद्य मेघसंघोपमैः शुभैः ।
 [प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः ॥
 आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः ।]
 [२]वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ॥ १६ ॥

 वर्धमानगृहैः-क्रीडागृहैः । परिष्कृतैरुपेतं तत्पितुर्वेश्मेति योजना ॥ १६ ॥

 [तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् ।
 राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥
 स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ।
 पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ।]
 स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः ।
 [३]सन्निवर्त्य जनं सर्वं [४]शुद्धान्तं पुनरभ्यगात् ॥ १७ ॥

 स सर्वा इति । उक्तपञ्चकक्ष्या इत्यर्थः ॥ १७ ॥


  1. अप्रदक्षिणं परिहरन् प्रदक्षिणं यथा तथा जगाम-गो. चतुष्पथाद्यपेक्षया स्वस्य दक्षिणभागगमनं परिहरन्-ति. वस्तुतः- प्रदक्षिणं यथा तथा चतुष्पथादीन् स्वदक्षिणभागे परिहरन्-त्यजन् जगामेत्यर्थः
  2. वर्धमानगृहैः-वर्धमानलक्षणाधिष्ठानसमेतगृहैः-गो. अत्युन्नतनिर्माणायारब्धगृहैः-ती. वर्धमानगृहैः-दक्षिणद्वाररहितैः । उक्तं च-'पश्चिमद्वारहीनं तु नन्द्यावर्ते प्रचक्षते । दक्षिणद्वारहीनं तु वर्धमानमुदाहृतम् इति-सत्य.
  3. सन्नियम्य-ङ.
  4. शुद्धान्तःपुर-ङ. च.