पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
184
[अयोध्याकाण्डः
कैकेय्यन्तःपुरप्रवेशः

 उदासीनश्शृण्वन्निति । स्तुतिजातहर्षाविकाररहित इति यावत् । अनुत्तमं यथातथोच्यमाना आत्मसंपूजनीर्वाचः शृण्वन्निति योजना ॥११॥

 न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ।
 नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे ॥ १२ ॥

 अतिक्रान्तेऽपीति । दृष्टिपथमिति शेषः ॥ १२ ॥

 यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।
 निन्दितः [१]स वसेल्लोके [२]स्वात्माऽप्येनं विगर्हते ॥ १३ ॥

 यश्च रामं स्वदेशस्थं न पश्येत्, यं च स्वदेशस्थमत एव रामोऽपि न पश्यति सोऽसावपरोक्षब्रह्मरामानुभवादृष्टहीन इहामुत्र च लोके सर्वलोकैर्निन्दितो वसेत् । अप्रयासेन भगवदपरोक्षीकृतिमात्रेण मुक्तिसंपादनादृष्टाभावान्नास्य कदाऽपि संसारोत्तार इत्यर्थः । अत एवास्यात्मा-अन्तर्यामी भगवानादिगुरुर्ब्रह्माप्येनं विगर्हते-पापिष्ठोऽयं मन्मूर्तिमपि साक्षात्कृत्य न जन्मोद्धृतवानिति ॥ १३ ॥

 सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् ।
 चतुर्णां हि[३] वयस्स्थानां तेन ते तमनुव्रताः ॥ १४ ॥

 दयामिति । मुक्तिपर्यन्तानुग्रहमित्यर्थः ॥ १४ ॥


  1. स भवेल्लोके-सर्वलोकेषु ङ.
  2. स्वात्माप्येनं विगर्हते-स्वान्तःकरणमप्येनं विशेषेण गर्हते-गो.
  3. चतुर्णां वर्णानां मध्ये सर्वेषामपि वयःस्थानां-वयः स्थानं प्रमाणं यस्याः सा-तादृशीं
    वयोऽनुरूपामिति यावत्-दर्या कुरुते-गो.ति. वयस्थानां वृद्धानां इति वा-गो. वस्तुतस्तु वयःपदं वयस्सामान्यवाची ।
    तत्तद्वयसि स्थितानां तत्तद्वयोऽनुगुणं पुरस्कारादिकं ददातीत्यर्थः । वृद्धानां पुत्र इव, बालानां पितेव, समानां सखेव च वर्तत इति यावत् । "बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।” "पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति।" "पिता पुत्रानिवौरसान्""पितेव परितुष्यति" इति खलूक्तम् । चक्रवर्तिकुमारस्य एवं वर्तनं हि सौलभ्यसूचकं इत्यभिप्रायेण 'दयां' इत्युक्तम् ।