पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७ सर्गः]
183
शुश्राव विविधा वाचः प्रजानां हर्षसंभृताः

 पितामहैराचरितं तथैवप्रपितामहैः ।
 अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ॥ ८ ॥

 आचंरितं-अनुष्ठितम् । अभिषिक्तोऽनुपालयेति वृद्धानां वादः ॥

 [यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ।
 [१]ततस्सुखतरं सर्वे रामे वत्स्याम राजनि ॥]
 [२]अर्थैरलं हि[३] भुक्तैर्नः परमार्थैरलं च नः ।
 यथा पश्येम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥ ९ ॥

 अर्थैरित्यादि । रामं राज्ये प्रतिष्ठितं-अभिषिक्तं राजमार्गे निर्यान्तं पश्येम यथा-साक्षात्कुर्मो यदि-एतत्सुखलाभो यदि; अर्थैर्हि प्रसिद्धैः ऐहिकविषयैर्भुक्तैः तद्भोगजसुखैर्नोऽस्माकं अलं, तथा परमैः-श्रेष्ठैः स्वर्गाद्यर्थैः तत्सुखैश्च नः-अस्माकं अलं-मा स्तु ॥ ९ ॥

 ततो हि नः प्रियतरं नान्यत्किञ्चिद्भविष्यति ।
 [४]यथाऽभिषेको रामस्य राज्येनामिततेजसः ॥ १० ॥

 कथमेवमित्यत्र-ततो हीत्यादि । भूमानन्दब्रह्मरामसाक्षात्कारजसुखादित्यर्थः। प्रियतरं–प्रेमातिशयास्पदं अन्यन्न किञ्चित्सुखं भविष्यति । [५]यथा ह्यमिततेजसो रामस्य राज्येन -राज्यप्राप्तिहेतवे अभिषेकः [६]तथा राज्ये प्रतिष्ठितमित्यादिपूर्वेणान्वयः ॥ १० ॥

 एताश्चान्याश्च सुहृदां [७]उदासीनः कथाः शुभाः ।
 [८]आत्मसंपूजनीः शृण्वन् ययौ रामो महापथम् ॥ ११ ॥


  1. ततः-तस्मात्-तदपेक्षया सुखतरं वत्स्याम इति भावः
  2. अलमद्यहि भुक्तेन-ङ.
  3. भुक्तेन-ऐहिकविषय-भोगजसुखेन । परमार्थैः-स्वर्गसाधनैश्च-ति. परमार्थैः-परमपुरुषार्थसाधन-भूतैः-गो.मोक्षसुखमपि मास्तु-ततोऽप्यस्य रामदर्शनस्य सुखतरत्वादित्याशयः.
  4. यथाऽभिषेकं इति-ति. गो. पाठः । यथा प्रियतरः न तथान्यत्प्रियतरमस्तीति भावः.
  5. यदा-क.
  6. तदा-क.
  7. उदासीन इति । धीरोदात्तत्वादिति भावः
  8. आत्मसंपूजाजननीरित्यर्थः-गो.