पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
182
[अयोध्याकाण्डः
कैकेय्यन्तःपुरप्रवेशः

 अभ्रसंकाशैः-पाण्डरमेघसदृशैः । मध्येन-उभयवीथीमध्य-प्रदेशेन । प्रकृत्यादित्वात् तृतीया ॥ २ ॥

 चन्दनानां च मुख्यानामगरूणां च संचयैः !
 उत्तमानां च गन्धानां [१]क्षौमकौशाम्बरस्य च ॥ ३ ॥
 [२][३]आविद्धाभिश्व मुक्ताभिरुत्तमैः स्फाटिकैरपि ।
 शोभमान[४]मसंबाधैस्तं राजपथमुत्तमम् ॥ ४ ॥

 कौशाम्बरं-कौशेयम् । आविद्धाभिः-मालायै कृतरंध्राभिः । [५]असंबाधैः-विविच्यस्थापितैः ॥ ४ ॥

 संवृतं विविधैः [६]पण्यैः भक्ष्यैरुच्चावचैरपि ।
 ददर्श तं राजपथं दिवि देव[७]पथं यथा ॥ ५ ॥

 पण्यादिभिः संवृतं-व्याप्तम् ॥ ५ ॥

 दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः ।
 नानामाल्योपगंधैश्च सदाभ्यचिंतसत्पथम् ॥ ६ ॥

 उपगन्धः-वः-हरिचन्दनादिः ॥ ६ ॥

 अशीर्वादान् बहून् शृण्वन् सुहृद्धिसमुदीरितान् ।
 यथार्हं वाऽपि संपूज्य सर्वानेव नरान् ययौ ॥ ७ ॥

 यथार्ह वा-यथार्हमेव । ईक्षणभ्रूक्षेपवचनाञ्जलिभिर्यथोचितमित्यर्थः ॥ ७ ॥


  1. कौशांबरस्य च संचयैः-शोभमानं-इत्यन्वयः
  2. अविद्धामिः-अकृतरंध्राभिः-नूतनाभिरिति यावत्-गो.
  3. अविद्धाभिश्च-ङ.
  4. असम्बाधं-विस्तीर्णे-ति.
  5. असंबाधैरित्युत्तरत्राप्यन्वेति.
  6. पुष्पैः-ङ.च.
  7. पतिर्यथा-ङ.च.