पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७ सर्गः]
181
अपश्यन्नगरंं रामः प्रजाभिस्समलङ्कृतम्

 करेणुमातङ्गरथाश्वसंकुलं
  महाजनौघप्रतिपूर्णचत्वरम् ।
 प्रभूतरत्नं बहुपण्यसञ्चयं
  ददर्श रामो रुचिरं महापथम् ॥ ४८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षोडशस्सर्गः


 मनुजाधिपेऽस्मिन् सतीति शेषः । [१]राम (५२) मानः सर्गः ॥ ४८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षोडशस्सर्गः



सप्तदशः सर्गः
[कैकेय्यन्तःपुरप्रवेशः]

 स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः ।
 [२]पताकाध्वजसंपन्नं महार्हागरुधूपितम् ॥ १ ॥
 अपश्यन्नगरं श्रीमान्नानाजनसमन्वितम् ।

 अथ रामस्य राजसमीपगमनम् । स राम इत्यादि ॥ १ ॥

 स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम् ॥
 राजमार्गं ययौ रामो [३]मध्येनागरुधूपितम् ॥ २ ॥


  1. मातृकास्वं दृश्यते । दृश्यन्ते तु सर्वत्र ४८ श्लोकाः
  2. अलंकारार्थाः चिह्नरहिताः-पताकाः । राजचिह्नसहितानि-ध्वजानि.
  3. मध्येन-तत्र तत्र-इति वार्थः । प्रथमश्लोके 'महार्हागरुधूपितं' इति वर्णनं नगरसामान्यस्य । द्वितीयश्लोके तु विशिष्य
    राजमार्गस्यातिशयविवक्षयेति न पौनरुक्तयम्.