पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
180
[अयोध्याकाण्डः
रामागमनम्

इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥ ४२ ॥
शुश्राव [१]राजमार्गस्थः प्रिया वाच उदाहृताः ।
[२][३] आत्मसंपूजनैः शृण्वन् ययौ रामो महापथम् ॥ ४३ ॥
 स राघवस्तत्र कथाप्रपञ्चान्
  शुश्राव लोकस्य समागतस्य ।
 [४]आत्माधिकारा विविधाश्च वाचः
  प्रहृष्टरूपस्य पुरे जनस्य ॥ ४४ ॥
 [५]एष श्रियं गच्छति राघवोऽद्य
  राजप्रसादाद्विपुलां गमिष्यन् ।
 एते वयं सर्वसमृद्धकामाः
  येषामयं नो भविता प्रशास्ता ॥ ४५ ॥
 लाभो जनस्यास्य यदेष सर्वं
  प्रपत्स्यते राज्यमिदं चिराय ।
 न ह्यप्रियं किञ्चन जातु कश्चित्
  पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ ४६ ॥
 स घोषवद्भिश्च हयैर्मतङ्गजैः
  पुरस्सरैः स्वस्तिकसूतमागधैः ।
 महीयमानः प्रवरश्च वादकैः
  अभिष्टुतो वैश्रवणो यथा ययौ ॥ ४७ ॥


  1. राजमार्गस्थः-गमनकाल इति भावः.
  2. उपलक्षणे तृतीया । आत्मसंपूजन-विशिष्टा वाच इत्यर्थः.
  3. इदमर्धं-ङ.च.पुस्तकयोर्नास्ति ।
  4. आत्माधिकाराः-आत्मानमधिकृत्य प्रवृत्ताः.
  5. श्रियं गमिष्यन् गच्छति-श्रियं प्राप्तुं गच्छतीति यावत् । गमिष्यन् राजगृहं, राजप्रसादाद्विपुलां श्रियं गच्छति-प्राप्नोति । राजगृहं गच्छन् श्रियं अवाप्स्यतीति वक्तव्ये व्यत्येयेन कथनं,राजगृहगमनपर्यन्तमेव विलम्ब:, राजगृहप्राप्तौ तत्क्षण एव श्रियः प्राप्तिरिति सूचनाय ।