पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६ सर्गः]
179
तं राजमार्गे गच्छन्तं दृष्ट्वा मुमुदिरे जनाः

 ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥ ३६॥
 सिंहनादाश्च शूराणां तदा शुश्रुविरे पथि ।
 हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः ॥ ३७॥
 कीर्यमाणः सुपुष्पोधैर्ययौ स्त्रीभिररिन्दमः ।
 रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः ॥ ३८ ॥
 वचोभिरग्रयैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ।

 ववन्दिर इति। [१]वन्दिरिह स्तुत्यर्थः, आशीर्वादमकुर्वन्नित्यर्थः॥

 नूनं [२] नन्दति ते माता कौसल्यामातृनन्दन ! ॥ ३९ ॥
 पश्यन्ती [३]सिद्धयात्रं त्वां पित्र्यं राज्य[४]मवस्थितम् ।

 स एव प्रदर्श्यते--नूनमित्यादिना । नन्दति-नन्दत्विति यावत् । सिद्धयात्रं-सिद्धकार्ययात्रम् । अत एव पित्र्यं राज्यमवस्थितं-अधितिष्ठन्तम् ॥ ३९ ॥

 सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तनीं वराम् ॥ ४० ॥
 अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।

 हि ताः इति पदच्छेदः ॥ ४० ॥

 तया सुचरितं देव्या पुरा नूनं महत्तपः ॥ ४१ ॥
 रोहिणीव शशाङ्केन रामसंयोगमाप या ।

 सुचरितं -स्वनुष्ठितम् ॥ ४१ ॥


  1. वदि अभिवादनस्तुत्योरिति धातुः
  2. नन्दतीति समीष्यान्निर्देशः
  3. सिद्धयात्रं-सिद्धगमनं-सिद्धगमनप्रयोजनं.
  4. मुपस्थितम् -ङ.च.