पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
178
[अयोध्याकाण्डः
रामागमनम्

 प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ।

 करेणुशिशुकल्पैरित्यनेन हृष्टपुष्टोन्नतमहाबलवत्त्वं सूच्यते ॥ ३०॥

 [१]स पर्जन्य इवाकाशे स्वनवा[२]नभिनादयन् ॥ ३१ ॥
 निकेतान्निर्ययौ श्रीमान् [३]महेन्द्रादिव चन्द्रमाः ।

 आकाशे स्वनवान्-नादवान् पर्जन्य इव मेघस्थानीयरथस्वनेन दिशो नादयन्निकेतनान्निर्ययौ ॥ ३१ ॥

 [४]छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ॥ ३२ ॥
 जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ।
 ततो हलहलाशब्दस्तुमुलस्समजायत ॥ ३३ ॥
 [५]तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ।

 हलहलेल्यनुकारः । तस्येति । तस्मिन्निष्क्रममाण इति यावत् ॥ ३३ ॥

 ततो [६]हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥ ३४ ॥
 अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः ।
 अग्रतश्चास्य सन्नद्धाश्चन्दनागरुभूषिताः ॥ ३५ ॥
 खड्गचापधराश्शूरा जग्मुराशंसवो जनाः ।

 आशंसव इति । श्रेय इति शेषः ॥ ३५ ॥


  1. आकाशे स्वनवान् पर्जन्य इव दिशोऽभिनादयन् महेन्द्राच्चन्द्रमा इव निकेतान्निर्ययाविति । रथारूढस्वादाद्यमुदाहरणम् । सौंदर्यवत्त्वे द्वितीयमुदाहरणम् जुगोप-आतपादिभ्य इति भावः-गो.
  2. नभिनन्दयन्-ङ.
  3. महाभ्रादिव-ङ.
  4. चित्र,चन्द्र-ङ.
  5. तस्य निष्क्रममाणस्य, 'पुरतः' इति शेषः । जनौघस्य
    हलहलाशब्द इत्यन्वयः-ति.
  6. हयनागशब्दौ तदारूढपरौ-गो.