पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६ सर्गः]
177
रामः सीतामनुज्ञाप्य निर्यया सहलक्ष्मणः

 अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः ।
 निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ २५ ॥

 कृतकौतुकमङ्गलः-कृतोत्सवमङ्गलानुष्ठानः ॥ २५ ॥

 पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः ।
 लक्ष्मणं द्वारि सोऽपश्यत् [१]प्रह्वाञ्जलिपुटं स्थितम् ॥ २६ ॥
 अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः ।
 स सर्वानार्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ २७ ॥

 अर्थिन इति । रामदर्शनार्थिन इति यावत् ॥ २७ ॥

 ततः पावकसंकाशमारुरोह रथोत्तमम् ।
 वैय्याघ्रं पुरुषव्याघ्रो[२] राजतं राजनन्दनः ॥ २८ ॥

 वैय्याघ्रं-व्याघ्रचर्मपरिवृतम् । 'द्वैपवैय्याघ्रादनञ्' ॥ २८ ॥

 मेघनाद[३] मसम्बाधं मणिहेमविभूषितम् ।
 मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ २९ ॥

 मेघस्येव नादो यस्य रथस्य स तथा ॥ २९ ॥

 करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः ।
 हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ॥ ३० ॥


  1. प्रहृत्वसूचकाञ्जलिपुटवन्तं-ति. अजलिपुट इति मत्वर्थीयोऽच्प्रत्ययः । प्रह्वश्वासावञ्जलिपुटश्चेति कर्मधारयः । प्रह्व अञ्जलिपुटं यस्येति बाहुव्रीहिर्वा । राज्ञां निर्गमनसमये भृत्याः खलु स्वाञ्जलिपुटमधः प्रदर्श्य "इत इतः" इति मार्गे प्रदर्शयन्तीति राजमर्यादा। लक्ष्मणस्त्वात्मानं रामदासमेव मन्यते स्मेति प्रसिद्धम् । अत एव द्वारीत्यपि स्वरसम्
  2. राजन्तं-ङ.
  3. असम्बाधं-विशालम्