पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
176
[अयोध्याकाण्डः
रामागमनम्

 स एव हेतुर्विव्रियते-यादृशीत्यादिना । तत्र-राजान्तः पुरे यादृशी-मदर्थैकप्रयोजना परिषत्तादृशः - मदर्थैकप्रयोजनो दूत आगत इति यतः अस्मादेव निश्चय इत्यर्थः ॥ १९ ॥

 हन्त ! शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् ।
 सह त्वं परिवारेण सुखमास्व रमस्व च ॥ २० ॥
 [१]पतिसंमानिता सीता भर्तारमसितेक्षणा ।
 आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ २१ ॥

 अभिदध्युषी–ध्यायतेः क्वसौ आर्षत्वात् 'वस्वेकाच्' इति इड-भावे सत्यपीटि वा 'उगितश्च' इति ङीपि भत्वात्' वसोः संप्रसारणम्' इति संप्रसारणे निर्निमित्तेटोऽपि लोपे षत्वे च रूपम् । अभिध्यातवतीति यावत् ॥ २१ ॥

 [२]राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् ।
 कर्तुमर्हसि ते राजा वासवस्येव लोककृत् ॥ २२ ॥
 दीक्षितं व्रतसंपन्नं वराजिनधरं शुचिम् ।
 कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ २३ ॥
 पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः ।
 वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ २४ ॥

 अथ सीताया मङ्गलानुष्ठानमिदानीम् । राज्यं-राज्यसिद्धिंप्रति द्विजातिभिजुष्टमभिषेचनं-यौवराज्याभिषेचनं कर्तुमर्हति । कालान्तरे राजसूयार्हमहाराज्याभिषचनमपि करोतु, वासवस्य श्रीमदादिगुरुर्भगवानिव । ततो राजसूययागे दीक्षितत्वादिधर्मकं त्वां भजामि ; भजिष्य इत्यर्थः ॥ २२-२४ ॥


  1. एभिर्विशेषणैः सीताया अपि वनगमनं ज्ञातमेवेति सूच्यत इति तिलके.
  2. लोककृत्-ब्रह्मा-गो. राजमूये योऽभिषेकः तदर्हं कर्तुं इत्यर्थः । राज्यं कर्तुमित्यत्र कर्तु-दातुमित्यर्थः