अथ महिष्या सहेत्युक्तत्वादुन्नयनार्हमर्थमुन्नयति-लक्षयित्वेत्यादि । वृद्धेन मयाऽविलम्बेन रामाभिषेकः कार्यः" इति राज्ञोऽभिप्रायमालक्ष्य सुदक्षिणा-समर्था अत एव राज्ञः प्रियकामा सती भरतासन्निधौ रामाभिषेकस्त्वत्सम्मतो न वा" इति प्रष्टारं पितरं सुदक्षिणात्वाद्राजानं मदर्थं प्रतिमदभिषेकं प्रति संचोदयति । भरतः अभिषेकोत्सवमनन्तरं श्रोष्यति । तत्र चिन्ता न कर्तव्या । शीघ्रमभिषेकः कार्यतामिति चोदयतीति मन्य इत्यर्थः ॥ १६ ॥
सा प्रहृष्टा[१] महाराजं हितकामानुवर्तिनी ।
जननी चार्थकामा मे केकयाधिपतेस्सुता ॥ १७ ॥
हितकामानुवर्तिनी-स्वस्या राजसौमुख्यादिप्रयोजनार्थतयैवानुवर्तनशीला । तथा जननी च । मे अर्थकामा-मदर्थसिद्ध्यपेक्षिणी ॥१७॥
दिष्टया खलु महाराजो महिष्या प्रियया सह ।
सुमंत्रं प्राहिणोदूतमर्थकाम[२]करं मम ॥ १८ ॥
कुत एवं निश्चय इत्यत्राह-दिष्ट्या खल्वित्यादि । ममार्थकरं सुमंत्रं प्राहिणोदिति यत् अतो मत्प्रयोजनार्थं प्राहिणोदित्यर्थः ॥ १८ ॥
यादृशी परिषत्तत्र तादृशो दूत आगतः ।
ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ १९ ॥
- ↑ 'महाराजं' इति पदं तिलके पूर्वश्लोकेनान्वितम्। 'महाराजं' 'राजानं'(१६ श्लो.) इति हर्षवशात्पुनरुक्तिरदोषाय इति समर्थितं च। हितकामा-लोकस्येति शेषः । महाराजं-भर्तारं अनुवर्तिनी मे अर्थकामा भवतीति शेषः । पूर्वश्लोकादारभ्य 'यादृशी परिषत्तत्र' इति पर्यन्तश्लोकस्वारस्यपरिशीलने रामेण निगूढं किञ्चिदुच्यत एवेति स्पष्टं विमर्शकानाम् । निगूढमुक्तोर्थ एवोत्तरत्र अयो. १०७-३ श्लोके रामेण स्पष्टीकृत इति ॥
- ↑ परं-ङ.