पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
174
[अयोध्याकाण्डः
रामागमनम्

 कौसल्यासुप्रजा राम ! पिता त्वां द्रष्टुमिच्छति ।
 महिष्या सह कैकेय्या, गम्यतां तत्र मा चिरम् ॥ १३ ॥

 कौसल्यासुप्रजारामेति कौसल्यासुप्रजादेवेति च [१]गतवत् ॥ १३ ॥

 एवमुक्तस्तु संहृष्टो नरसिह्मो महाद्युतिः ।
 ततस्संमानयामास सीतामिदमुवाच ह ॥ १४ ॥
 देवि ! देवश्च [२]देवी च समागम्य मदन्तरे ।
 मंत्रयेते ध्रुवं किञ्चि[३]दभिषेचनसंहितम् ॥ १५ ॥

 देवश्च देवी च-मातापितराविति यावत् । मदन्तरे-मदर्थे,अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये", अभिषेचनसंहितं-अभिषेचनोपयुक्तं किञ्चिद्विचारोपेतं ध्रुवं मन्त्रयेते-विचारं कुर्वाते ॥१५॥

 लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा ।
 संचोदयति राजानं [४]मदर्थमसितेक्षणा ॥ १६ ॥


  1. 'गतवत्-बाल-२३ सर्गे द्वितीयश्लोकवत् इत्यर्थः
  2. देवी च इति कथनात् एवं वा रामस्याशयः स्यात् ॥ उत्तरत्र "पुरा भ्रातः पिता नस्स मातरं ते समुद्वहन् । मातामहे समाश्रौषीद्वाज्यशुल्कमनुत्तमम् ॥" (अयो. १०७-३) इति हि रामो वक्ष्यति ॥ न ह्येतदिदानीं विस्मृतं स्यात् । 'विप्रोषितश्च भरतो यावदेव पुरादितः । तावदेवाभिषेकस्ते प्राप्तकालो मतो मम।' इति दशरथवाक्येऽ(अयो. ४-२५)प्ययमर्थः स्पष्टः । अत एवेदानीं निगूढमुच्यते-लक्षयित्वेति ॥ भरतासन्निधौ रामाभिषेचनरूपं राज्ञोऽभिप्रायं ज्ञात्वा राजानं सत्यप्रतिशं कर्तुकामा अत एव सुदक्षिणा मद्धितार्थे-ममावतारप्रयोजनसिद्धये वा राजानं समीचीनमार्गे संचोदयति इत्यर्थः । अस्य गूढोक्ति-रूपत्वात् 'यौवराज्येऽभिषेक्ष्यति' इत्यनेन न विरोधः ॥ यद्वा- वालिवधसमये स्वस्यभरतादेशानुवर्तित्वेन प्रकटनात्तथोक्तमिति.
  3. अभिषेचनसंहितं-अभिषेचन-सम्बन्धि-गो.
  4. मदर्थं मदिरेक्षणे-ङ.