पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६ सर्गः]
173
ससीतालक्ष्मणं रामं सुमन्त्रस्तत्र दृष्टवान्

 प्रतिवेदितमाज्ञाय सूत[१]मभ्यन्तरं पितुः ।
 तत्रैवानाययामास [२]राघवः [३]प्रियकाम्यया ॥७॥

 प्रतिवेदितं द्वारपालैर्विज्ञापितं सूतं पितुरभ्यन्तरं-अन्तरङ्गं आज्ञाय-ज्ञात्वा । तत्रैव-सीतया सहावस्थितिस्थल एवेत्यर्थः ॥ ७ ॥

 तं वैश्रवणसंकाशमुपविष्टं स्वलङ्कृतम्
 ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥ ८ ॥
 वराहरुधिरामेण शुचिना च सुगन्धिना।
 अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ॥ ९ ॥

 वराहरुधिरबदतिरक्तमित्यर्थः ॥ ९ ॥

 [४]स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ।
 उपेतं सीतया भूयः [५]चित्रया शशिनं यथा ॥ १० ॥
 तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा ।
 ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ ११ ॥

 विनीतवत्-विनीतस्सन् ॥ ११ ॥

 प्राञ्जलिस्तु सुखं पृष्ट्वा [६]विहारशयनासने ।
 राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ १२ ॥


  1. मभ्यागतं- ङ.
  2. राघवप्रिय-ङ.
  3. प्रियकाम्ययेति । पितुरिति शेषः
  4. सीतया-ङ.
  5. चैत्रपौर्णमास्यां चित्राख्यतारकोपेतं उदितं
    शशिनमिव स्थितं-गो.
  6. विहारशयनासन इति द्वंद्वैकवद्भावः-गो. विहारः-आहारादिसर्वे व्यापाराः, तेषु तद्विषय इत्यर्थः । सुखं पृष्टृत्यन्वयः.