पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
172
[अयोध्याकाण्डः
रामागमनम्

षोडशः सर्गः
[रामागमनम्]

 स तदन्तःपुरद्वारं समतीत्य जनाकुलम् ।
 [१][२]प्रविविक्तां ततः कक्ष्यां आससाद पुराणवित् ॥ १ ॥

 अथ रामस्य राजभवनोपस्थानम् । स तदित्यादि ॥ १ ॥

 [३][४]प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः ।
 अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ २ ॥

प्रासकार्मुकानि बिभ्रतीति प्रासकार्मुकबिभ्रतः, तैस्तथा । द्विर्वचनं छान्दसम् । मृष्टकुण्डलैः-सूत्तेजितसमप्रकर्णाभरणैः ॥ २ ॥

 तत्र [५]काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् ।
 ददर्श विष्ठितान् द्वारि [६]स्त्र्यध्यक्षान्सुसमाहितान् ॥ ३ ॥
 ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः ।
 सहसोत्पतितास्सर्वे स्वासनेभ्यस्ससंभ्रमाः ॥ ४ ॥
 तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः ।
 क्षिप्रमाख्यात रामाय सुमंत्रो द्वारि [७]तिष्ठति ॥ ५ ॥

 प्रकर्षेण दक्षिणः-समर्थस्तथा ॥ ५ ॥

 ते राममुपसंगम्य भर्तुः प्रियचिकीर्षवः ।
 सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ ६ ॥


  1. प्रविविक्तां-जनसम्बाधरहिताम्.
  2. प्रविभक्तां-ङ.
  3. प्राप्तकार्मुक-ङ.
  4. 'प्रासकार्मुक' इत्यत्र 'सुपां सुलक्' इति द्वितीयालुक्-ती. मृष्टं-शोधितं.
  5. काषायिणः-काषायवस्त्रधारिणः । रामप्रीत्यर्थं-
    मलङ्कारकञ्चुकालंकृतानित्यर्थः-गो.
  6. स्त्र्यध्यक्षाः-अन्तःपुराध्यक्षाः-कञ्चुकिन इति यावत्.
  7. एतदनन्तरं इति करणं द्रष्टव्यम्.