पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५ सर्गः]
171
विवेशावार्यमाणस्स रामस्य भवनं शुभम्

 ततो [१]महामेघमहीधराभं
  [२]प्रभिन्नमत्यङ्कुशमप्रसह्यम् ।
 रामौपवाह्यं रुचिरं ददर्श
  शत्रुञ्जयं नागमुदग्रकायम् ॥ ४६ ॥
 स्वलङ्कृतान् साश्वरथान् सकुञ्जरान्
  अमात्यमुख्यांश्च ददर्श वल्लभान् ।
 व्यपोह्य सूतान् सहितान् समन्ततः
  समृद्धमन्तःपुरमाविवेश ह ॥ ४७ ॥

वल्लभान्-राज्ञ इति यावत् । सहितान्-व्याप्तान् ॥ ४७ ॥

 [३]तदेन्द्रकूटाचलमेघसन्निभं
  महाविमानोपमवेश्मसंयुतम् ।
 अवार्यमाणः प्रविवेश सारथिः
  प्रभूतरत्नं मकरो यथार्णवम् ॥ ४८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चदशः सर्गः


 [४]इन्द्रकूटस्य-इन्द्रगृहस्य अचलमेघस्य-स्थिरमहामेघस्य च सन्निभं तत्तथा । महाविमानानां उत्तमवेश्मनां संघोऽस्यास्तीति तथा । “विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि” । देव (४८) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकाया अयोध्याकाण्डे पञ्चदशः सर्गः



  1. महामेघाधिरूढपर्वतसदृशं-ति. महामेघतुल्यं, महीधरतुल्यं चेति वार्थः । आकारे महीधरतुल्यं । न तावन्मात्रम् यतो महीधरो निश्चलः । अतो महामेघतुल्यं चेत्युक्तं । महीधरो ह्यगः, अयं तु नागः । न+अगः.
  2. प्रभिन्नं-मत्तं । 'प्रभिन्नो गर्जितो मत्तः' इत्यमरः
  3. तदद्रि-ङ.ततोऽद्रि-च
  4. 'अद्रिकूटाचल' इति पाठे- अद्रिशिखरेण, अचलमेघेन च सन्निभमित्यर्थः-गो. तिलके तु-'अद्रिशृङ्गे आरूढो योऽचलो मेघः' इत्युक्तम् ।