पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
170
[अयोध्याकाण्डः
रामाह्वानम्

 स तत्र कैलासनिभाः स्वलंकृताः
  प्रविश्य कक्ष्याः त्रिदशालयोपमाः ।
 प्रियान्नरान् राममते स्थितान् बहून्
  अपोह्य शुद्धान्तमुपस्थितो रथी ॥ ४२ ॥
 स तत्र शुश्राव च हर्षयुक्ताः
  [१]रामाभिषेकार्थकृतां जनानाम् ।
 नरेन्द्रमनोरभिमङ्गलार्थाः
  सर्वस्य लोकस्य गिरः प्रहृष्टाः ॥ ४३ ॥

 रामाभिषेकप्रयोजनं कर्म कुर्वन्तीति रामाभिषेकार्थकृतः -तेषां गिरः शुश्रावेति योजना । अभितो मङ्गलप्रतिपादनमर्थो यासां गिरांतास्तथा । सर्वलोकस्य च गिरः शुश्राव ॥ ४३ ॥

 महेन्द्रसद्मप्रतिमं च वेश्म
  रामस्य रम्यं मृगपक्षिजुष्टम् ।
 ददर्श मेरोरिव शृङ्गमुच्चं
  विभ्राजमानं प्रभया सुमंत्रः ॥ ४४ ॥
 उपस्थितैरञ्जलिकारिभिश्च
  सोपायनैर्जानपदैजनैश्च ।
 कोट्या परार्धेश्च विमुक्तयानैः
  समाकुलं द्वारपथं ददर्श ॥ ४५ ॥

 कोट्या-तत्संख्यया । परार्धैः-तत्संख्यया, सर्वान्ता संख्या परार्धः, उपलक्षितैर्जनैस्समाकुलं । अनेनातिसंमर्दो दर्शितः ॥४५॥


  1. 'रामाभिषेकार्थकृताः' इत्यपि पाठः-गो. रामाभिषेकार्थे प्रयुक्ताः इत्यर्थः । तत्सम्बन्धिनीरिति यावत् । इदं गिर इत्यस्य विशेषणम् ॥