पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५ सर्गः]
169
रामाभिषेकसंरभान् पश्यन् रामगृहं ययौ

 मेरुशृङ्गसमं सूतो रामवेश्म [१]ददर्श ह ।
 [२]उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः ॥ ३७ ॥
 उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः ।
 [३]रामाभिषेकसुमुखैरुन्मुखैस्समलंकृतम् ॥ ३८ ॥
 महामेघसमप्रख्यमुदग्रं सुविराजितम् ।
 नानारत्नसमाकीर्णं [४][५]कुब्जकैरपि चावृतम् ॥ ३९ ॥

 उपादाय-उपदा इति शेषः । उदग्रं-प्रशस्तम् ॥ ३९ ॥

 स वाजियुक्तेन रथेन सारथिः
  समाकुलं [६]राजकुलं विलोकयन् ।
 [७]वरूथिना [८]राजगृहाभिपातिना
  [९]पुरस्य सर्वस्य मनांसि रञ्जयन् ॥ ४० ॥

 राजकुलं-राजमार्गं । रथगुप्तिर्वरूथः, तद्वता ॥ ४० ॥

 ततः समासाद्य महाधनं महत्
  प्रहृष्टरोमा स बभूव सारथिः ।
 मृगैर्मयूरैश्च समाकुलो[१०]ल्बणं
  गृहं वरार्हस्य शचीपतेरिव ॥ ४१ ॥

 महत् धनं यस्मिन् तत्-महाधनम् । समाकुलैः-इतस्ततः प्रसृतैः उल्बणं । वरार्हस्य-उत्तमवस्त्वर्हस्य ॥ ४१ ॥


  1. इदं क्रियापदं एकोनचत्वारिंशच्छलोकपर्यन्तं सम्बध्यते
  2. आदरात्पुनरपि रामवेश्मवर्णनम्
  3. उन्मुखैः-उत्सुकैः-ति.गो.
  4. 'कुब्जकैरातकावृतं' इत्यपि पाठः-गो. कैरातकः-किरातसमूहः.
  5. कुब्जकैरातकावृतम्-ङ.
  6. राजपथं- ङ.
  7. पराभिघातरक्षार्थावरणं वरूथः । तृतीयान्तं
    सर्वे रथविशेषणम् । पुरस्य-पौरस्य
  8. रामगृहा-ङ.
  9. जनस्य-ङ.
  10. उल्बणं-व्याप्तं । यद्वा बण शब्द इति धातुः ।
    शब्देन विशिष्टं ॥ समाकुलं अत एवोल्बणमित्यर्थः । उल्बणां-अधिकशोभावत्-ति.