पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
168
[अयोध्याकाण्डः
रामाह्वानम्

 काञ्चनप्रतिमै[१]काग्रं मणिविद्रुमतोरणम् ।
 [२]शारदाभ्रघनप्रख्यं दीप्तं मेरुहोपमम् ॥ ३२ ॥

 काञ्चनप्रतिमाभिः एकाभिः-मुख्याभिः अग्रं-समग्रम् । [३]शारदाभ्रघनः व्याकृतचरः ॥ ३२ ॥

 मणिभिर्वर[४]माल्यानां सुमहद्भिरलंकृतम्
 मुक्तामणिभिराकीर्ण चन्दनागरुधूपितम् ॥ ३३ ॥
 गन्धान्मनोज्ञान् विसृजद्दार्दुरं शिखरं यथा ।

 वरमाल्यानां-स्वर्णपुष्पमाल्यानामन्तरालवर्तिभिः सुमहद्भिः- महादीप्तिमद्भिः मणिभिरलंकृतम् । दार्दुरं, दर्दुरो मलयसन्निकृष्टश्चन्दनगिरिः ॥ ३३ ॥

 सारसैश्च मयूरैश्च विनदाद्भिर्विराजितम् ॥ ३४ ॥
 सुकृतेहामृगाकीर्ण सूत्कीर्णं भक्तिभिस्तदा ।

 सुकृतैः-सुष्ठुनिर्मितैः ईहामृगैः-वृकैः,"कोकस्त्वीहामृगो वृकः । भक्तयः-वर्धकिनां सूक्ष्मं चित्रशिल्पम् ॥ ३४ ॥

 मनश्चक्षुश्च भूतानामादद[५]त्तिग्मतेजसा ॥ ३५ ॥
 [६]चन्द्रभास्करसंकाशं कुबेरभवनोपमम् ।
 महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥ ३६॥


  1. एकं प्रधानं अग्र पुरोभागः यस्य-ति. एकाग्रं-निरन्तरं । यद्वा काञ्चन-प्रतिमाभिरेकानि मुख्यानि अग्राणि-शिखराणि यस्मिन्- गो.
  2. शरत्कालिकाकाशगत-मेघवदुन्नतं स्वच्छं च.
  3. पञ्चमस्य पञ्चमे श्लोके-अभ्रे विद्यमानो घनो मेघः ।शारदपदेनानन्तरं कर्मधारयः इति यावत्-इत्युक्तम् अधिकं तत्रैव द्रष्टव्यम्.
  4. माल्यैश्च-ङ.
  5. तिग्मतेजसा-अतिशयितशोभया । यद्वा प्रतिविम्बितसूर्यकिरणैः-ति.
  6. अतितेजसा सूर्यसदृशमपि चक्षुष आवर्जनेन चन्द्रसदृशं चेति भावः