पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५ सर्गः
167
स राजवचनं श्रुत्वा प्रतस्थे राममन्दिरम्

 स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥ २७ ॥
 निर्जगाम नृपावासात् मन्यमानः प्रियं [१]महत् ।

 प्रियं मन्यमान इति हार्दाभिप्रायापरिज्ञानात् ॥ २७ ॥  [२]प्रपन्नो राजमार्गं च पताकाध्वजशोभितम् ॥ २८ ॥  हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ।

 राजमार्गं विलोकयन्निति सम्बन्धः ॥ २८ ॥

 स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥ २९ ॥   अभिषेचनसंयुक्तास्सर्वलोकस्य [३]हृष्टवत् ।  रामाधिकरणाः-रामविषयिणीः । अभिषेचनेति । तत्प्रसङ्गेति यावत् । हृष्टवत्-हृष्टो भूत्वा ॥ २९ ॥

 ततो ददर्श रुचिरं कैलाससदृशप्रभम् ॥ ३० ॥
 रामवेश्म सुमंत्रस्तु शक्रवेश्मसमप्रभम् ।
 [४]महाकपाटपिहितं वितर्दिशतशोभितम् ॥ ३१ ॥

 वितर्दिः-वेदिका ॥ ३१॥


  1. कैकेयीविवाहकाले तत्पुत्रायैव राज्याभिषेचनं यद्दशरथेन प्रतिज्ञातं तत् ज्ञातमेव सुमन्त्रेणापि । एवञ्च कैकेयीसम्मतिमन्तरा रामाभिषेचनमसंभवि । कैकेयी चैतावता रामविषयेऽतिहृष्टैव वर्तते । यतस्तथा 'रामे वा भरते वापि विशेषं नोपलक्षये' इत्युक्तम् ।
    एवञ्चेदानीं कैकेय्या अनुमतिप्राप्तथर्थमेव रामं राजाऽऽनयतीति मन्यते सुमंत्रः । अत उक्तं 'प्रियं महत्' इति । यद्वा-श्रीरामावतारो यदर्थः, स इदानीं संपत्स्यत इत्यभिप्रायो वा तस्य स्यात्.
  2. प्रसन्ने-ङ.
  3. स्वार्थे वतिः-गो.
  4. 'महाकवाटविहितं' इत्यपि पाठः । निर्मितमहाकवाटमित्यर्थः-गो. प्रातस्समयत्वान्महाकवाटपिहितं । महाकवाटगतस्वल्पद्वारस्यैवोद्घाटितस्वात्-ति.