पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
166
[अयोध्याकाण्डः
रामाह्वानम्

 [१]प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ।

 प्रतिबुध्येति । यवनिकान्तर्हितमपि स्तोत्रध्वनिनेति शेषः ॥

 राममानय सूतेति यदस्यभिहितोऽ[२]नया |
 [३]किंकारणमिदं येन ममाज्ञा प्रतिहन्यते ॥ २५ ॥

 इदमब्रवीदिति किमब्रवीदित्यत्राह-राममित्यादि । हे सूत राममानयेत्यनया कैकेय्या अभिहितोऽसीति यत् तस्यैवाप्रतिषिद्धमनुमतमिति न्यायेन मदाज्ञात्वात्, सेयं ममाज्ञा प्रतिहन्यते-नानुष्ठीयत इतीदं किंकारण-किंकारणकमित्यर्थः ॥ २५ ॥

 न चैव संप्रसुप्तोऽहमानयेहाशु राघवम् ॥ २६ ॥
 इति राजा दशरथः सूतं तत्रान्वशात्पुनः ।

 न च निद्रापरवशस्य राज्ञ इदमनुमतं न वेति संशयितव्यं त्वयेत्याह-न चैवेत्यादि । यदेवमतः 'आशु राघवमिहानय' इत्येवंराजा पुनश्च तत्रैव-कैकेयीविनियुक्तकार्य एव अन्वशात्-अनुशास्ति स्म । शासेः "तिप्यनस्तेः" इति सकारस्य दकारे 'हल्ङ्याब्भ्यः'-इत्यादिना सुलोपः ॥ २६ ॥


  1. प्रतिबुध्य-ज्ञात्वा । यवनिकान्तर्हितमपि तं ध्वनिना सुमंत्र प्रत्यागतं ज्ञात्वेति यावत्.
  2. तिलके-'अभिहितो मया' इति पाठः । 'आनयेति पाठे तु उपलक्षणं मया चेत्यस्य । पूर्वं राज्ञा स्वयमप्युक्तेः' इति चोक्तम् । एतत्परिशीलने-पूर्वसर्गे 'नात्र कार्या विचारणा' इत्यन्तकैकेय्युक्त्यनन्तरं 'अश्रुत्वा राजवचनं कथं गच्छामि भामिनि ।
    तच्छ्रुत्वा मंत्रिणो वाक्यं राजा मंत्रिणमब्रवीत् । सुमंत्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ।' इत्यधिकः पाठः तिलकसम्मतः । इदं तु न कतकसम्मतमिति स्पष्टम् । गोविन्दराजस्याप्यसम्मतमेव ।
    अत्र तिलके कतकव्याख्यामनूद्य, उत्तरश्लोके पुनः पदास्वारस्य
    दूषणमुक्तं । कैकेय्याशायाः स्वेष्टत्वेन 'पुनः' इत्यपि युज्यत एव । अत एव पूर्वः 'सुमंत्रन्वितयामास' इत्यपि स्वरसम् ॥
  3. किमिदं कारणं-ङ. च. झ.