पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५ सर्गः]
165
राजा त्वाशापयामासानेतुं रामं पुनस्तदा

 असक्तं-अनिरोधम् । तुष्टावेति । वक्ष्यमाणरीत्येति शेषः । वेश्म प्रविश्य वंशं तुष्टावेति योजना ॥ १९ ॥

 [१]शयनीयं नरेन्द्रस्य तदाऽऽसाद्य व्यतिष्ठत ।
 सोऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा ॥ २० ॥

 शयनीयमप्यासाद्य व्यतिष्ठत । ननु कथं तल्पपर्यन्तगमनमित्यत्राह-सोऽत्यासाद्येत्यादि । [२]तिरस्करणिं- यवनिकामात्रं अन्तरा कृत्वा-व्यवधानं कृत्वा अत्यासाद्य-अतिसमीपमागत्य तुष्टावेति योजना । [३]पुनश्च स्तवो राजविज्ञापनस्य स्तुतिपूर्वकतयैव प्रवृत्तेः सूतनिसर्गधर्मत्वात् ॥ २० ॥

 आशीर्भिर्गुणयुक्ताभिः अभितुष्टाव राघवम् ।
 सोमसूर्यौ च काकुत्स्थ ! शिववैश्रवणावपि ॥ २१ ॥
 [४]वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ।
 गता भगवती [५]रात्रिः कृतं कृत्यमिदं तव ॥ २२ ॥
 बुध्यस्व नरशार्दूल ! कुरु कार्यमनन्तरम् ।
 ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ! ॥ २३ ॥
 दर्शनं [६]प्रतिकांक्षन्ते प्रतिबुध्यस्व राघव !
 स्तुवन्तं तं तदा सूतं सुमंत्रं मन्त्रकोविदम् ॥ २४ ॥


  1. शयनीयं-शयनयोग्यं गृहम- गो.
  2. यवनिकापर्यन्तगमनं सृतानामनुमतमिति भावः
  3. राज्ञा आह्वानमन्तरा स्वयमन्तःपुरे राजदर्शनस्यानुचितत्वात् स्वागमनसूचनाय स्तवः । तेन च राजा स्वयमाह्वयेदिति भावः
  4. एतदनन्तरं-यथा साङ्गाश्च वेदा वै ब्रह्माणं बोधयन्ति ते । तथा त्वां धीर बोध्यामि ह्युत्तिष्ठ पुरुषर्षभ-इत्यधिकम्-ङ.
  5. रात्रिः अहरिशवमुपस्थितम्-ङ. च.
  6. तेऽभिकाङ्क्षन्ते-ङ.