पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
164
[अयोध्याकाण्डः
रामाह्वानम्

 इति तेषु ब्रुवाणेषु [१]सर्वास्तांश्च महीपतीन् ॥ १५ ॥
 अब्रवीत्तानिदं वाक्यं सुमन्त्रो राजसत्कृतः ।
 [२]रामं राज्ञो नियोगेन त्वरया प्रस्थितो ह्यहम् ॥ १६ ॥

 प्रस्थितो ह्यहमिति । आनेतुमिति शेषः ॥ १६ ॥

 पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः ।
 [३]अहं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥ १७ ॥
 राज्ञः संप्रति बुद्धस्य चानागमनकारणम् ।
 इत्युक्त्वाऽन्तःपुरद्वारमाजगाम [४]पुराणवित् ॥ १८ ॥

 अथाप्यहं व्याधुट्य प्रविश्यायुष्मतां युष्माकं वचनाद्राज्ञः सुखं पृच्छामि । सर्वे समेत्य राज्ञः सुखं कच्चिदिति पृच्छन्तीति विज्ञापयामीत्यर्थः । व्याघुट्यापि विज्ञापनहेतुः पूज्या इत्यादि । अपि च यत्संप्रति-उदयसमये सर्वथा बुद्धस्याप्यनागमनं- बहिर्निर्गमाभावकारणं तत्पृच्छामि इत्युक्तान्तःपुरद्वारं जगाम । पुराणवित्-चिरकालकथाभिज्ञः-चिरवृद्ध इति यावत् ॥ १८ ॥

 [५]सदाऽसक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह ।
 तुष्टावास्य तदा वंशं प्रविश्य स विशांपतेः ॥ १९ ॥


  1. सर्वान् भौमान् महीपतीन्-ङ.
  2. रामं, अभि प्रस्थित इत्यन्वयः । राममानेतुं प्रस्थित इति तात्पर्यम् । ग्रामं प्रस्थित इतिवत्प्रयोगः
  3. अयं पृच्छामि-ङ
  4. संप्रतिबुद्धस्येत्येकं पदं वा । पुराणविदिति साभिप्राय-
    वचनम् । सुमंत्रस्य विदितपूर्ववृत्तान्तत्वमनेन सूच्यते । दशरथस्य पुत्रशोकान्मरणरूप-शापकथा, कैकेयीविवाहकाले कैकेय्यां जातायैव राज्यदानरूपप्रतिज्ञा च सुमंत्रेण ज्ञाते एव ।
    अत एव पूर्वं 'सुमंत्रश्चिन्तयामासे'त्युक्तिः । २८ तमश्लोकटिप्पणी द्रष्टव्या
  5. सद्भिः आसक्तमिति वार्थः ।