पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५ सर्गः]
163
तेषामागमनं सूतस्तदा राज्ञे व्यजिज्ञपत्

 [१]अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः ।
 [२]सजलाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥ ८ ॥
 पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ।
 चन्द्रांशुविकचप्रख्यं पाण्डरं रत्नभूषितम् ॥ ९ ॥
 सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ।
 चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डुरम् ॥ १० ॥
 सज्जं द्युतिकरं श्रीम[३]दभिषेकपुरस्कृतम् ।

 अभिषेकपुरस्कृतमिति । प्रक्षालितमिति यावत् ॥ १० ॥

 [४]पाण्डुरश्च वृषस्सज्जः पाण्डुरोऽश्वञ्च संस्थितः ॥ ११ ॥
 वादित्राणि च सर्वाणि वन्दिनश्च तथाऽपरे ।
 इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥ १२ ॥
 तथाजातीयमादाय राजपुत्राभिषेचनम् ।
 ते राजवचनात्तत्र समवेता महीपतिम् ॥ १३ ॥
 अपश्यन्तोऽब्रुवन्, को नु राज्ञो नः प्रतिवेदयेत् ।
 न पश्यामश्च राजानमुदितश्च दिवाकरः ॥ १४ ॥
 यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ।

 राजपुत्राभिषेचनं-तत्साधनमादाय समवेतास्ते ब्राह्मणादयो महीपतिमपश्यन्तोऽब्रुवन् । किमब्रुवन्नित्यत्राह-को न्वित्यादि । सज्जः-सज्जपरिकर इति यावत् ॥ १४ ॥


  1. इदमर्धमधिकं । किञ्चेदं कुत्रचित् 'क्षौद्रं दधि' इत्यादेः पूर्वमेव | तथा 'वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः । लीलावत्यः सुभ्रुवश्च लोलनेत्राश्च सर्वशः ॥इत्यधिकं च-ङ.
  2. सलाजाः-ङ.
  3. अभिषेकाय पुरस्कृतं-गो. अभिषेकसामग्रीमुख्यं-ति.
  4. एतच्छलोकानन्तरं "प्रसृतश्च गजः श्रीमानौप-बाह्यः प्रतीक्षते । अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥" इत्यधिकं-ङ.