पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
162
[अयोध्याकाण्डः
रामाह्वानम्

"कृत्यलुटो बहुलम्" इति अर्हार्थे ल्युट् । उपस्थानार्हं त्वां उपतस्थुरित्यर्थः ॥ १ ॥

 अमात्या बलमुख्याश्च मुख्या ये [१]निगमस्य च ।
 राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः ॥ २ ॥
 उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि ।
 लग्ने कर्कटके प्राप्ते [२]जन्म रामस्य च स्थिते ॥ ३ ॥
 अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् ।
 काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम् ॥ ४ ॥
 रथश्व सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा ।
 गङ्गायमुनयोः पुण्यात् सङ्गमादाहृतं जलम् ॥ ५ ॥
 याश्चान्याः सरितः पुण्याः हृदाः कूपाः सरांसि च ।
 प्राग्वाहाश्चोर्ध्ववाहाश्च [३]तिर्यग्वाहाश्च क्षीरिणः ॥ ६ ॥

 [४]प्राग्वाहा इत्यादि । नद्य इति शेषः । पर्वतघट्टनोपाधि- नोर्ध्वप्रवाहवत्प्रदेशवत्य ऊर्ध्ववाहाः । तिर्यग्वाहाः-दक्षिणोत्तरप्रवाहदेशवत्यः । [५]क्षीरिणः-क्षीरपूर्णाः ॥ ६ ॥

 ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः ।
 क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥ ७ ॥


  1. निगमस्य-पुरस्य-"निगमो निश्चये वेदे पुरे" इति वैजयन्ती-गो.
  2. यस्मिन् लग्ने रामस्य जन्म-तस्मिन् कर्कटके स्थिते सतीति योजना
  3. तिर्यग्वाहाः समाहिताः-ङ.
  4. प्राग्वाहाः-पूर्वाभिमुखप्रवाहाः–गोदावर्यादयः ॥ ऊर्ध्ववाहाः-ऊर्ध्वोद्गतप्रवाहाः-नैमिशारण्यस्थ-ब्रह्मावर्तादिसरोविशेषाः । ऊर्ध्ववाहाः-प्रत्यग्वाहा इति केचित् । ऊर्ध्वाद्वहन्तीत्यूर्ध्ववाहाः निर्झरा इति केचित्-गो.
  5. क्षीरं-जलम्.