इति सूतो मतिं कृत्वा हर्षेण महता वृतः ।
निर्जगाम महाबाहू राघवस्य दिदृक्षया ॥ ६६ ॥
सागरहृदसङ्काशात् सुमन्त्रोऽन्तःपुराच्छुभात् ।
निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ ६७ ॥
सागरान्तर्वर्तिह्रदस्तथा-इदं तु पुरान्तर्वर्तित्वादन्तःपुरस्य ॥
ततः पुरस्तात्सहसा विनिर्गतो
महीपतीन् द्वारगतान् विलोकयन् ।
ददर्श पौरान् विविधान् महाधनान्
उपस्थितान् द्वारमुपेत्य विष्ठितान् ॥ ६८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्दशः सर्गः
सार (६८) मानः सर्गः (?) ॥ ६८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्दशः सर्गः
अथ पञ्चदशस्सर्गः
[ रामाह्वानम् ]
ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः ।
[१]उपतस्थुरुपस्थानं सह राजपुरोहिताः ॥ १ ॥
अथ राजस्त्रिया राज्ञा च गुप्तहृदयतया प्रवर्त्यमानस्य सुमंत्रस्य यथापूर्वं वृत्तिः–ते त्वित्यादि । [२]उष्य-उषित्वा । [३]उपस्थानमिति ।