पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
160
[अयोध्याकाण्डः
कैकेय्युपालम्भः

 यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः ।
 तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ ६१ ॥

 दैन्यं-सत्यपाशबन्धजं कैकेयीविषयकम् । मन्त्रज्ञा-स्वकार्ये वक्तव्यविचारज्ञा ॥ ६१ ॥

 सुमन्त्र ! राजा रजनीं [१][२]रामहर्षसमुत्सुकः ।
 प्रजागरपरिश्रान्तो निद्राया वशमेयिवान् ॥ ६२ ॥

 अत एव मिथ्यामप्याह-रामहर्षेति । रामाभिषेकहर्षेति यावत् ॥

 तद्गच्छ त्वरितं सूत ! राजपुत्रं यशस्विनम् ।
 [३]राममानय, भद्रं ते, नात्र कार्या विचारणा ॥ ६३ ॥
 स मन्यमानः कल्याणं हृदयेन ननन्द च ।
 निर्जगाम च संप्रीत्या त्वरितो [४]राजशासनात् ॥ ६४ ॥

 स मन्यमानः कल्याणमिति । 'नात्र कार्या विचारणा' इति मायाविन्या तयोक्तत्वेन विश्वासात् ॥ ६४ ॥

 सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ।
 व्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ॥ ६५ ॥


  1. सोपहासवाक्यमिदम् । अथवा-इष्टवियोगजन्यत्वाद्दुःखस्य, इच्छातारतम्यानुविधायित्वाद्दुःखतारतम्यस्य च, रामाभिषेके यावत्यधिकेच्छाऽऽसीद्राज्ञः, तद्विच्छेदेऽपि तावदे दुःखमभूत् । एवञ्च यतो राजा रामहर्षसमुत्सक आसीत्, तत एवेदानीं प्रजागरपरिश्रान्तो वर्तते, तद्विच्छेदादिति सोपहासं निगूढं चोच्यते कैकेय्या.
  2. कामहर्ष- ङ.
  3. एतदनन्तरं 'अश्रुत्वा राजवचन कथं गच्छामि भामिनि । तच्छ्रुत्वा मन्त्रिणो वाक्य राजा मन्त्रिणमब्रवीत् ॥ सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ।' इत्यधिकम्-ङ.
  4. राजशासना-दित्युक्तिः, अप्रतिषिद्धमनुमतमिति न्यायात् । अत एव चिन्तयामासेत्युक्तिः । कुतस्साक्षाद्राज्ञैव नोक्तमिति चिन्ता । अनन्तरसर्गे २५तमश्लोकोऽत्र द्रष्टव्यः.