पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
159
तदा तमब्रवीद्राममानयेहेति कैकयी

 यथा ह्यपालाः पशवो यथा सेना ह्यनायका ।
 यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥ ५६ ॥
 एवं हि भविता राष्ट्रं [१]यत्र राजा न दृश्यते ।

 भवितेति लुट् । अतः शीघ्रं सन्निधेहीति शेषः ॥ ५६ ॥

 इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ॥ ५७ ॥
 अभ्यकीर्यत शोकेन भूय एव महीपतिः ।

 सान्त्वपूर्वम् अर्थवदिव-अर्थवदेव च ॥ ५७ ॥

 ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति ॥ ५८ ॥
 शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः ।

 शोकरक्तेति । शोकजरोदनरक्तेति यावत् ॥ ५८ ॥

 वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥ ५९ ॥

 भूयो निकृन्तसीति । कैकेयीवाक्यैः कृत्तमर्माणं पुनरभ्यधिकं स्तुतिवाक्यैर्निकृन्तसि । अनुचितकाले प्रयुज्यमानत्वादिति शेषः ॥ ५९ ॥

 सुमन्त्रः [२]करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।
 प्रगृहीताञ्जलिः किश्चित्तस्मादेशादपाक्रमत् ॥ ६० ॥

 अपाक्रमदिति । भीत इति शेषः ॥ ६० ॥


  1. पूर्वे दशरथेन "अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्" (अयो. ४-१६) इत्यादिना स्वस्य राज्येऽभिलाषानिवृत्तिपूर्वकं रामाभिषेचनस्य प्रतिज्ञातत्वात्, इदानीमनभिषेचने अराजकत्वं स्यादित्याशयेनैवं सुमंत्रेणोक्तम् । अथवा-"दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् । आचचक्षेऽथ मेधावी शरीरे चात्मनो जराम्" (अयो. १-४३) प्रायेण च निमित्तानामीदृशानां समुद्भवे । राजा हि मृत्युमाप्नोति (अयो. ४-१९) इत्यादिभिः, सुमन्त्रेणापि दशरथमरणस्य सन्निहितत्वेन ज्ञातत्वाद्रामानभिषेचने अराजकं राज्यं स्यादित्युक्तमिति
  2. करुणं-दीनवाक्यं-गो. शृण्वतां करुणाजनकमिति यावत् ।
    क्रियाविशेषणं वेदम् ।