पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
158
[अयोध्याकाण्डः
कैकेय्युपालम्भः

 उत्तिष्ठाशु महाराज ! कृतकौतुकमङ्गलः ।
 विराजमानो वपुषा मेरोरिव दिवाकरः ॥ ५१ ॥

 कृतकौतुकमङ्गलः-कृतोत्सवार्थमङ्गलानुष्ठानः । [१]विचित्रवस्त्राभरणादिपरिग्रहरूपं मङ्गलानुष्ठानम्, "कौतुकं त्वभिलाषे स्यादुत्सवे नर्महर्षयोः" अत एव वपुषा विराजमानस्त्वं मेरोर्दिवाकर इव उत्तिष्ठेति योजना ॥ ५१ ॥

 [२]सोमसूर्यौ च काकुत्स्थ ! शिववैश्रवणावपि ।
 वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ ५२ ॥
 गता भगवती रात्रिः [३]कृतं कृत्यमिदं तव ।
 [४]बुध्यस्व नृपशार्दूल ! कुरु कार्यमनन्तरम् ॥ ५३ ॥

 कृतमिति । यत्कृत्यं कर्तव्यं रामाभिषेकायास्मदादिभिः तदिदं सर्वं कृतम् ॥ ५३ ॥

 [५]उदतिष्ठत रामस्य समग्र[६]मभिपेचनम् ।
 पौरजानपदश्चापि नैगमश्च कृताञ्जलिः ॥ ५४ ॥

 तदेव दर्शयति-उदतिष्ठतेत्यादि । उदतिष्ठत-उत्थितं संपन्नमभूदित्यर्थः । नैगमः-वणिम्वर्गः ॥ ५४ ॥

 [७]अयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ।
 क्षिप्रमाज्ञाप्यतां राजन् ! राघवस्याभिषेचनम् ॥ ५५ ॥


  1. कर्तव्यस्यातिशैघ्रयविवक्षया कृतकौतुकेति निर्देशः
  2. इदं श्लोकद्वयं कतिपयग्रन्थेषु (ङ.च.) नोपलभ्यते.
  3. अहर्निशमुपस्थितं-ङ.
  4. प्रतिबुध्यस्व राजर्षे-ङ.
  5. उपतिष्ठति-ङ.
  6. अभिषेचनं-अभिषेकसामग्री
  7. स्वयं-ङ.