पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
157
ततस्सूतो यथापूर्वं बोधयामास पार्थिवम्

नन्द, आनन्दघन इति च तत्राभिप्रायतः पदच्छेदः । [१]न्यस्तु- 'भास्करोदये-चन्द्रोदये' इत्याह-तत्तु प्रसिद्धिविरोधात् तेजस्वी इति विशेषणाच्चोपेक्ष्यम् ॥ ४७ ॥

 इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः ।
 [२]सोऽजयद्दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ ४८ ॥

 अस्यां तु वेलायामिति । उदयवेलायामित्यर्थः ॥ ४८ ॥

 वेदाः साङ्गाश्च विद्याश्च यथा ह्यात्मभुवं प्रभुम् ।
 ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ ४९ ॥

 ब्रह्माणं बोधयन्तीति । “ब्रह्मा त्वं राजन् ब्रह्माऽसि सवितासि सत्यसवः” इत्यादि “सत्यराजान्" इत्यन्तैर्मगवदहरादौ सवित्रादि-सृष्टये वेदादिभिः भगवत्स्तुतिः ॥ ४९ ॥

 आदित्यः सह चन्द्रेण यथा [३]भूतधरां शुभाम् ।
 बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ ५० ॥

 बोधयत्यद्य पृथिवीमिति। उदयास्तमयाभ्यामिति शेषः ॥ ५० ॥


  1. इदं च महेश्वरतीर्थाये गोविन्दराजीये च दृश्यते । शिरोमणिस्तु- 'अभास्करोदय इति च्छेदः । भास्करसदृश इत्यर्थः । स च चन्द्र एव' इत्याह । अब्राह्मणमानयेत्यादौ ब्राह्मणसदृशमानयेति बोधस्य वैयाकरणैरभिधानादिति तदाशयः । तिलके तु भास्करोदये-तत्काले प्रत्यूर्मिप्रतिफलिततेजसा तेजस्वी सागरो यथा स्नातुकामान् नन्दति-नन्दयति (अन्तर्भावितण्यतः) तथा नोऽस्मान् प्रीतेन मनसा प्रीतः-अस्मद्विषयक-प्रीत्याश्रयस्सन् नन्दय इत्युक्तम् । स्वरसं चेतदेव.
  2. योऽ-ङ
  3. "भूतधरां-सर्वप्राणिधरां पृथिवीं बोधयति । विशेषणद्वारा पृथिवीबोधनं (विशेषणमत्र सर्वप्राणिवगः) । अथ बोधयामीत्यन्वयः"-गो.