पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
156
[अयोध्याकाण्डः
कैकेय्युपालम्भः

 इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ।
 स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ ४३ ॥
 तं तु पूर्वोदितं वृद्धं द्वारस्था राज[१]सम्मतम् ।
 न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ ४४ ॥

 पूर्वोदितं-पूर्वमेव राज्ञा कस्मिन्नप्यवसरे अकर्तव्यनिरोधतया उदितं-कृताज्ञम् । एवमाज्ञाप्रदाने हेतुः-वृद्धमिति । वयसा तपसा मन्त्रादिना च वृद्धमित्यर्थः ॥ ४४ ॥

 स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् ।
 वाग्भिः परम[२]तुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ ४५ ॥

 एवमनुरोधतः स्त्र्यगारस्य समीपं गत्वा तत्समीपे स्थितः स सुमन्त्रो राज्ञस्तामवस्थां-यथोक्तरूपामतिधोरां अजज्ञिवान्-अज्ञातवान् । "वस्वेकाजात्" इति घसेरिट् । अत एव यथापूर्वं स्तोतुमुपचक्रमे ॥ ४५ ॥

 ततः सूतो [३]यथापूर्वं पार्थिवस्य निवेशने ।
 सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ ४६ ॥
 यथा नन्दति तेजस्वी सागरो भास्करोदये ।
 प्रीतः प्रीतेन मनसा [४]तथाऽऽनन्दघनस्ततः ॥ ४७ ॥

 सगरो यथा भास्करोदयकाले प्रत्यूर्मिप्रतिफलितसूर्यतेजसा तेजस्वीभूत्वा नन्दति-तथा प्रीतेन मनसा प्रतिफलितसूर्यस्थानीयेन प्रीतः, तत एव हेतोरानन्दघनः-आनन्दपूर्ण[५]स्सन् नन्द-नन्दय ।


  1. सम्मताः-ङ.
  2. हृद्याभिः-ङ.
  3. यथाकालं-ङ. झ.
  4. तथाऽऽनन्दय न-ङ.च
  5. स्त्वं-क.