पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
155
रामाभिषेकं सन्नह्य राजं स द्रष्टुमाययौ

 वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् ।
 श्वेते च वालव्यजने भृङ्गारश्व हिरण्मयः ॥ ३७ ॥

 नरसंयुक्तं वाहनं शिबिकादि । भृङ्गारः-कनकालुका ॥ ३७ ॥

 हेमदामपिनद्धश्च ककुद्मान् पाण्डरो वृषः ।
 [१]केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ॥ ३८ ॥

 चतुर्दष्ट्रंत्वादेव हरिश्रेष्ठत्वम् ॥ ३८ ॥

 सिंहासनं व्याघ्रतनुः [२]समिधश्च हुताशनः ।
 सर्ववादित्रसंघश्च वेश्याश्चालंकृताः स्त्रियः ॥ ३९ ॥

 [३]व्याघ्रतनुः-साङ्गव्याघ्रचर्म ॥ ३९ ॥

 आचार्या ब्राह्मणा गावः पुण्याश्व मृगपक्षिणः ।
 पौरजानपदश्रेष्टा [४]नैगमाश्च गणैः सह ॥ ४० ॥

 नैगमाः-वणिजः । गणैः-स्वस्वीयैः ॥ ४० ॥

 एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः ।
 अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ ४१ ॥
 त्वरयस्व महाराजं [५]यथा समुदितेऽहनि ।
 [६]पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ ४२ ॥

 यथासमुदिते-यथोचितं संप्राप्ते ॥ ४२ ॥


  1. केसरी-प्रशस्तकेसर हरिश्रेष्ठः-अश्वोत्तमः-गो. ति.
  2. 'समिद्धश्च हुताशनः'-ङ.
  3. व्याघ्रचर्मेत्यर्थः-गो.
  4. 'नैगमो वणिजा वणिक्' इत्यमरः.
  5. समुदिते मुहूर्तगुणैरिति शेषः । यथा रामो राज्यमवप्नुयात तथा राजानं स्वरयस्व-ति. समुदिते-सम्यगमिव्यक्ते-गो. वस्तुतस्तु 'यथासमुदिते-यथोक्त एव' इत्यर्थः स्यात् । ('उक्तं भाषितमुदितं इत्यमरः) वचने सम्यकत्व-'पुण्ये' इत्यादिनोच्यते । पूर्वनिर्दिष्ट एव सुमुहूर्त इति
    यावत्। मा भूच्छुभकालातिक्रम इति भावः.
  6. पुष्ये-ङ