पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
154
[अयोध्याकाण्डः
कैकेय्युपालम्भः

 स त्वपश्य[१]द्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।
 द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ ३२ ॥

 विनिष्क्रान्तमिति । अन्तःपुरादिति शेषः । द्वारे-अन्तःपुरद्वारे । अपश्यदिति योजना ॥ ३२ ॥

 तमुवाच महातेजाः सूतपुत्रं विशारदम् ।
 [२]वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ ३३ ॥
 इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ।
 औदुम्बरं भद्रपीठं अभिषेकार्थ[३]माहृतम् ॥ ३४ ॥

 सागरेभ्य इति । आहृतोदकपूर्णा इति शेषः । काञ्चनाः-स्वर्णनिर्मिताः । औदुम्बरं भद्रपीठमिति । "औदुम्बर्यासन्दी, तस्यै प्रादेशमात्राः पादाः स्युः" इति राजाभिषेकबह्वचब्राह्मणप्रसिद्धा एवमादिपदार्थाः ॥ ३४ ॥

 सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ।
 [४]क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥ ३५ ॥
 अष्टौ च कन्या रुचिरा मत्तश्र वरवारणः ।
 चतुरश्रो रथः श्रीमान्निस्त्रिंशो धनुरुत्तमम् ॥ ३६ ॥

 निस्त्रिंशः-खड्गः ॥ ३६ ॥


  1. विनिष्क्रान्तं स्वगृहादिति शेषः । प्रियदर्शनमित्यनेनाभिषेकार्थमात्मानमलंकृत्यागत इति सूचितम्-गो. युक्तं चैतद्व्याख्यानम् 'प्रविवेश' इत्युत्तरत्र (४३) उक्तेः
  2. वसिष्ठः तमुवाचेति पूर्वेणान्वयः
  3. आहृतमिति वचनलिङ्गव्यत्ययेन यथायोग्यं सर्वत्रान्वेति.
  4. क्षौद्रं-मधु 'मधुक्षौद्रं' इत्यमरः.