पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
153
ततः प्रभाते त्वागच्छाद्वसिष्ठो मुनिसत्तमः

 वसिष्ठो गुणसंपन्नः शिष्यैः परिवृतस्तदा ।
 उपगृह्याशु संभारान् प्रविवेश पुरोत्तमम् ॥ २६ ॥

 पुरोत्तमं प्रविवेशेति । सरय्वां कृतप्राभातिक इति शेषः ॥ २६ ॥

 [१]सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् ।
 संहृष्टमनुजोपेतां समृद्ध[२]विपणापणाम् ॥ २७ ॥

 समृद्धविपणाः-समृद्धक्रेयपदार्थवन्तः आपणाः यस्यां सा तथा ॥ २७ ॥

 महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम्
 चन्दनागरुधूपैश्च सर्वतः परिधूपिताम् ॥ २८ ॥

 समुत्सुकां-समुत्सुकप्रजायुक्ताम् ॥ २८ ॥

 तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ।
 ददर्शान्तःपुरं[३] श्रीमान्नानाध्वजगणायुतम् ॥ २९ ॥
 पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् ।
 [४]यज्ञविद्भिः सुसंपूर्णं [५]सदस्यैः परमद्विजैः ॥ ३० ॥
 तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् ।
 वसिष्ठः परमप्रीतः [६]परमर्षिर्विवेश च ॥ ३१ ॥


  1. एतदनन्तरं "विचित्रकुसुमाकीर्णो नानास्त्रग्भिर्विराजिताम्" इति अधिकं-ङ.
  2. विपणः-विक्रयणक्रिया | "विपणो विक्रयः" इत्यमरः । पदार्थानां समृद्धत्वात् विक्रयणक्रियाया अपि समृद्धत्वं- समृद्धविक्रयणक्रियाविशिष्टापणशालिनीमित्यर्थः ।
    बहुव्रीहिगर्भबहुव्रीहिः
  3. अन्तःपुरं श्रेष्ठं-ङ.
  4. 'यष्टिमद्भिः' इति पाठान्तरम् । इदं ब्राह्मणविशेषणम् ।
    'धारयेद्वैणवीं यष्टिं' इति स्नातकर्मप्रकरणोक्तेः । यद्वा-यष्टिधरै राजसेवकैरित्यर्थः-ति.
  5. सदश्वैः परमाचितैः, सदस्यैः परमार्चितैः-ङ.
  6. परमर्षिमिरावृतः-ङ.