पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
152
[अयोध्याकाण्डः
कैकेयुपालम्भः

 किमिदं भाषसे राजन् ! [१] ! रुजोपमम् ।
 आनाययितु[२]माक्लिष्टं पुत्रं राममिहार्हसि ॥ २१ ॥

 अथ यथाऽतिकृच्छ्रनिर्यातनीयमधमर्णं अतिनिष्ठुरपरमनिर्घृणोत्तर्णस्तु वदति तथा बलादेव स्वमृणं निर्यात्य गच्छत्याह-किमित्यादि । अङ्गेत्यामन्त्रणे । रुजा-शूलः । अङ्ग राजन्-हे राजन् ! मम शूलतोदनोपमं इदं-अशक्यतावाक्यं किं भाषसे-व्यर्थमेव भाषसे । अतः-आनाययितुमित्यादि ॥ २१ ॥

 स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ।
 निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ २२ ॥
 [३]तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः ।
 राजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत् ॥ २३ ॥
 [४]धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना ।
 ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ २४ ॥

 यस्याप्यस्ति शिक्षणसमये प्रतोदः-राजाऽप्युक्तदृष्टान्तवदेव त्वया करणीयः । तत्कुर्वित्येवान्तत आह-धर्मेत्यादि । द्रष्टुमिच्छामि । गमनात्पूर्वमिति शेषः ॥ २४ ॥

 ततः [५]प्रभातां रजनीमुदिते च दिवाकरे ।
 पुण्ये नक्षत्रयोगे च मुहूर्ते च [६]समागते ॥ २५ ॥


  1. वाक्यं गररुजोपममित्यपि पाठः । विषजनितव्याधिसदृशमिति भावः । सन्निपातादाविव किमिदं पूर्वापरविरुद्धं भावस इति यावत्वाक्यमङ्ग
  2. अक्लिष्टं भावे तः । क्रियाविशेषणं वा । क्लेशो यथा न स्यात्तथेत्यर्थः
  3. नुन्न-ङ.
  4. अनेन रामाववासन गत्यन्तराभावान्मनागनुज्ञातमिव । स तु रामो मद्वचन नोल्लङ्घयेदित्यमिप्रयन्नाह-धार्मिकमिति.
  5. प्रभातां रजनीं-प्रभातायां रजन्यां-गो. प्रभाता रजनीं 'दृष्ट्वा' इति शेषः । कवेरपि वर्णनीयमयीभावेन शोकाविष्टत्वान्नयूनपदादिकं न दोषाय-ति
  6. समाहिते-ङ.