पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
151
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमैच्छत् तदा नृपः

 सपुत्रया त्वया नैव कर्तव्या सलिलक्रिया ।
 [१] व्याहन्तास्यशुभाचारे ! यदि रामाभिषेचनम् ॥ १७ ॥
 न शक्तोऽद्यास्म्यहं द्रष्टुं दृष्ट्वा पूर्वं [२]तथामुखम् ।
 हतहर्षं तथानन्दं [३]पुनर्जनमवाङ्मुखम् ॥ १८ ॥

 व्याहन्तासीति लुण्मध्यमः । व्याहन्त्री यदि तदा त्वद्वचनमनुतिष्ठन्नहं तदा पूर्वं तथामुखं दृष्ट्वाऽद्यावाङ्मुखं तं द्रष्टुमशक्तोऽस्मि ॥ १८ ॥

 तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः ।
 प्रभाता शर्वरी [४]पुण्या चन्द्रनक्षत्रशालिनी ॥ १९ ॥

 तथा ब्रुवत इति । मशक्यानुष्ठानतया ब्रुवत इत्यर्थः ॥ १९ ॥

 ततः पापसमाचारा कैकेयी पार्थिवं पुनः ।
 उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता ॥ २० ॥


  1. लुट्, मध्यम पुरुषैकवचनम्
  2. तथासुखमिति बहुव्रीहिः,तथामुखवन्तमित्यर्थः । तथामुखमिति गोविन्दराजीये पाठः तादृश सुखयुक्तमित्यर्थः ।
  3. अत्र जनपददर्शनेन–पूर्वमपि १५तमे श्लोके 'अभिषेकाय हि जनस्त्वरयिष्यति मां ध्रुवम्' इति पाठः स्वरस इव । प्रजामिप्रायविरुद्धतया नाहं किञ्चित्कर्तुं शक्नोमीति सूच्यते
  4. पुण्या-प्रभाता पुण्यसाधनप्रभातकालावच्छिन्ना । यद्वा निरन्तररामचिन्तासमेतत्वात्पुण्या-ति । पुण्येत्युक्तिः अनन्तरं रामदर्शनसंभवात्-गो.
    अथवा-पुण्या-मनोज्ञा "पुण्यस्त्रिषु मनोज्ञे स्यात्" इति विश्वः । अथवा-परिपूता-" पुण्यं तु सुन्दरे । सुकृते पावने धर्मे" इति कोशात् । यतः सा शर्वरी पुण्या-अत एव राज्ञो नाधर्मे प्रवृत्तिरासीत्। अथापि कैकेय्या अधर्म एव प्रवृत्तिरासीदिति "पापसमाचारा" इत्यनेनोच्यते ।
    प्रायः प्रभाते हि सर्वप्राणिनां धर्माभिरुचिः स्वाभाविकीति भावः ॥