पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
150
[अयोध्याकाण्डः
कैकेय्युपगलम्भः

 प्रभाता रजनी देवि ! सूर्यस्योदयनं प्रति ।
 [१][२]अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ १५ ॥

 अथ दीर्घरजुभ्रमितकन्तुकवन्महता यत्नेन प्रवर्तितकार्यो मयाऽशक्यानवारण इत्याशयेनाह-प्रभातेत्यादि । उदयनं प्रतीति-उदयं प्रतिलभ्येति यावत् ॥ १५ ॥

 [३] रामाभिषेकसंभारैस्तदर्थमुपकल्पितैः ।
 रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ १६ ॥

 तदर्थं-अभिषेकार्थं उपकल्पितै रामाभिषेकसंभारै रामस्याभिषेकं प्रति गुरुजनो मां त्वरयिष्यति ध्रुवम् । ततो रामः कृताभिषेकः कारयितव्यः; कुर्वन् गुरुजनानुरोधो मया कर्तव्यः, तस्यापि न्यायप्राप्तत्वात् इत्यर्थः । एवं सति [४]रुष्टया त्वया मत्सलिलक्रिया न कर्तव्येत्याह-मृतस्येत्यादि ॥ १६ ॥


  1. पूर्वार्धे विद्यमानं 'प्रति' इति पदे देवलीदीग्नयेन अभिषेकमित्यनेनाप्यन्वेति ।
    अभिषेकं प्रति मां स्वरयिष्यतीत्यन्वयः
  2. अभिषेकाय हि जनः-ङ.झ.
  3. पूर्वाश्लोकादारभ्य 'रामः कारयितव्यो मे' इत्यन्तमेकं वाक्यमिति व्याख्यातॄणामाशयः । वस्तुतस्तु- राभिषेककालः सन्निहतः, देवि ! स्वयाऽत्र न विघ्नः कार्य इति पूर्वश्लोकेन राजा कैकेयी प्रार्थयामास । पुनस्तस्या दृढमध्यवसायं स्वस्य सत्यपाशबद्धतां चालोव्याह-रामाभिषेवेत्यादि । श्लोकद्वयमेकान्वयि । एवं सत्यपि, अशुभावारे रामाभिषेचनं यदि व्याहन्तासि-वरनिर्बन्धं यदि न जहासि, तदापि न भरताभिषेचनसंभवः, यतोऽहं रामाभिषेकविघ्नमसहमानो म्रिये ।
    रामाभिषेकार्थमुपकल्पितैः संभारैः मम सलिलक्रियैव संपद्येत। तथा च 'अनेनेवाभिषेकेन' (11-25) इति रीत्या न भवदिष्टसिद्धिः । तत्रापि राम एव मस्सलिलक्रियां कारयितव्यः, न तु त्वत्पुत्रेण सलिलक्रिया कार्या इत्यर्थः इति
  4. यदि रुष्टा त्वमिति शेषः.