पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
149
एवमुक्तस्तया राजा स भ्रान्तहृदयोऽभवत्

 एवं-न्यायोपेततयेति यावत् । पाशं-सत्यपाशबंधनम् । उन्मोक्तुं-उन्मोचयितुम् । बलिः इन्द्रकृतं-उपेन्द्रवामनकृतं पदत्रयप्रति-श्रवरूपं पाशं यथा मोक्तुं नाशकत् तद्वदित्यर्थः ॥ ११ ॥

 उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत् ।
 स धुर्यो वै परिस्पन्दन् [१]युगचक्रान्तरं [२]यथा ॥ १२ ॥

 सः-दशरथः युगचक्रान्तरं प्राप्य परिस्पन्दन्-तिर्यक्परि- स्पन्दमानो धुर्यः, हेतौ शतृ, अत एवोद्भ्रान्तहृदयत्वादिधर्मको यथा भवति तद्वदित्यर्थः ॥ १२ ॥

 [३]विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः ।
 कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ १३ ॥

 संस्तभ्येति । विह्वलं चित्तमिति शेषः ॥ १३ ॥

 यस्ते मन्त्रकृतः पाणिरग्नौ पापे ! मया धृतः ।
 तं त्यजाभि स्वज चैव तव पुत्रं सह त्वया ॥ १४ ॥

 अथानिष्टाया अनिष्टपुत्रस्य च त्याग एव न्यायतो धर्मतश्च कर्तव्य इति मन्वान आह-यस्त इत्यादि । हे पापे ! अग्नौ -अग्नि-सन्निधौ यस्ते पाणिः मन्त्रकृतः- "गृभ्णामि ते" इति मन्त्रकृतभरणो मया मृतश्च तं त्यजामि; स्वजं तमपि तव पुत्रं त्वया सह त्यजामि । हेतुः प्रागेवोक्तः ॥ १४ ॥


  1. युगचक्रयोरन्तरं मध्यं प्राप्य परिभ्रमन् धुयों यथा अनड्वानिव-ति. युगचक्रयोरन्तरं परिस्पन्दन्-गच्छन्- गो.
  2. गतः-ङ.
  3. विकलाभ्यां-ङ.च.विकृताभ्यां-ङ.